रामायण · अध्याय 1.011
ततः काले बहुतिथे कस्मिंश् चित् सुमनोहरे
वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनो ऽभवत्
ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम्
यज्ञाय वरयाम् आस संतानार्थं कुलस्य वै
तथेति च स राजानम् उवाच च सुसत्कृतः
संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम्
ततो राजाब्रवीद् वाक्यं सुमन्त्रं मन्त्रिसत्तमम्
सुमन्त्रावाहय क्षिप्रम् ऋत्विजो ब्रह्मवादिनः
ततः सुमन्त्रस् त्वरितं गत्वा त्वरितविक्रमः
समानयत् स तान् विप्रान् समस्तान् वेदपारगान्
सुयज्ञं वामदेवं च जाबालिम् अथ काश्यपम्
पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः
तान् पूजयित्वा धर्मात्मा राजा दशरथस् तदा
इदं धर्मार्थसहितं श्लक्ष्णं वचनम् अब्रवीत्
मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्
तदर्थं हयमेधेन यक्ष्यामीति मतिर् मम
तद् अहं यष्टुम् इच्छामि शास्त्रदृष्टेन कर्मणा
ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्य् अहम्
ततः साध्व् इति तद् वाक्यं ब्राह्मणाः प्रत्यपूजयन्
वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच् च्युतम्
ऋश्यशृङ्गपुरोगाश् च प्रत्यूचुर् नृपतिं तदा
संभाराः संभ्रियन्तां ते तुरगश् च विमुच्यताम्
सर्वथा प्राप्यसे पुत्रांश् चतुरो ऽमितविक्रमान्
यस्य ते धार्मिकी बुद्धिर् इयं पुत्रार्थम् आगता
ततः प्रीतो ऽभवद् राजा श्रुत्वा तद् द्विजभाषितम्
अमात्यांश् चाब्रवीद् राजा हर्षेणेदं शुभाक्षरम्
गुरूणां वचनाच् छीघ्रं संभाराः संभ्रियन्तु मे
समर्थाधिष्ठितश् चाश्वः सोपाध्यायो विमुच्यताम्
सरय्वाश् चोत्तरे तीरे यज्ञभूमिर् विधीयताम्
शान्तयश् चाभिवर्धन्तां यथाकल्पं यथाविधि
शक्यः कर्तुम् अयं यज्ञः सर्वेणापि महीक्षिता
नापराधो भवेत् कष्टो यद्य् अस्मिन् क्रतुसत्तमे
छिद्रं हि मृगयन्ते ऽत्र विद्वांसो ब्रह्मराक्षसाः
विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति
तद् यथा विधिपूर्वं मे क्रतुर् एष समाप्यते
तथाविधानं क्रियतां समर्थाः करणेष्व् इह
तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन्
पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तम् अकुर्वत
ततो द्विजास् ते धर्मज्ञम् अस्तुवन् पार्थिवर्षभम्
अनुज्ञातास् ततः सर्वे पुनर् जग्मुर् यथागतम्
गतानां तु द्विजातीनां मन्त्रिणस् तान् नराधिपः
विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0