भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.010

1.010.001

भूय एव च राजेन्द्र शृणु मे वचनं हितम्
यथा स देवप्रवरः कथायाम् एवम् अब्रवीत्

1.010.002

इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः
राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः

1.010.003

अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति
कन्या चास्य महाभागा शान्ता नाम भविष्यति

1.010.004

पुत्रस् त्व् अङ्गस्य राज्ञस् तु लोमपाद इति श्रुतः
तं स राजा दशरथो गमिष्यति महायशाः

1.010.005

अनपत्यो ऽस्मि धर्मात्मञ् शान्ताभर्ता मम क्रतुम्
आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च

1.010.006

श्रुत्वा राज्ञो ऽथ तद् वाक्यं मनसा स विचिन्त्य च
प्रदास्यते पुत्रवन्तं शान्ता भर्तारम् आत्मवान्

1.010.007

प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः
आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना

1.010.008

तं च राजा दशरथो यष्टुकामः कृताञ्जलिः
ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्

1.010.009

यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः
लभते च स तं कामं द्विजमुख्याद् विशां पतिः

1.010.010

पुत्राश् चास्य भविष्यन्ति चत्वारो ऽमितविक्रमाः
वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः

1.010.011

एवं स देवप्रवरः पूर्वं कथितवान् कथाम्
सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः

1.010.012

स त्वं पुरुषशार्दूल तम् आनय सुसत्कृतम्
स्वयम् एव महाराज गत्वा सबलवाहनः

1.010.013

अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च
सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः

1.010.014

वनानि सरितश् चैव व्यतिक्रम्य शनैः शनैः
अभिचक्राम तं देशं यत्र वै मुनिपुंगवः

1.010.015

आसाद्य तं द्विजश्रेष्ठं लोमपादसमीपगम्
ऋषिपुत्रं ददर्शादौ दीप्यमानम् इवानलम्

1.010.016

ततो राजा यथान्यायं पूजां चक्रे विशेषतः
सखित्वात् तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना

1.010.017

लोमपादेन चाख्यातम् ऋषिपुत्राय धीमते
सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत्

1.010.018

एवं सुसत्कृतस् तेन सहोषित्वा नरर्षभः
सप्ताष्टदिवसान् राजा राजानम् इदम् अब्रवीत्

1.010.019

शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते
मदीयं नगरं यातु कार्यं हि महद् उद्यतम्

1.010.020

तथेति राजा संश्रुत्य गमनं तस्य धीमतः
उवाच वचनं विप्रं गच्छ त्वं सह भार्यया

1.010.021

ऋषिपुत्रः प्रतिश्रुत्य तथेत्य् आह नृपं तदा
स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया

1.010.022

ताव् अन्योन्याञ्जलिं कृत्वा स्नेहात् संश्लिष्य चोरसा
ननन्दतुर् दशरथो लोमपादश् च वीर्यवान्

1.010.023

ततः सुहृदम् आपृच्छ्य प्रस्थितो रघुनन्दनः
पौरेभ्यः प्रेषयाम् आस दूतान् वै शीघ्रगामिनः
क्रियतां नगरं सर्वं क्षिप्रम् एव स्वलंकृतम्

1.010.024

ततः प्रहृष्टाः पौरास् ते श्रुत्वा राजानम् आगतम्
तथा प्रचक्रुस् तत् सर्वं राज्ञा यत् प्रेषितं तदा

1.010.025

ततः स्वलंकृतं राजा नगरं प्रविवेश ह
शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम्

1.010.026

ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम्
प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा

1.010.027

अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः
कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्

1.010.028

अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्
सह भर्त्रा विशालाक्षीं प्रीत्यानन्दम् उपागमन्

1.010.029

पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः
उवास तत्र सुखिता कं चित् कालं सह द्विजा

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc