रामायण · अध्याय 1.009
सुमन्त्रश् चोदितो राज्ञा प्रोवाचेदं वचस् तदा
यथर्ष्यशृङ्गस् त्व् आनीतः शृणु मे मन्त्रिभिः सह
लोमपादम् उवाचेदं सहामात्यः पुरोहितः
उपायो निरपायो ऽयम् अस्माभिर् अभिचिन्तितः
ऋश्यशृङ्गो वनचरस् तपःस्वाध्यायने रतः
अनभिज्ञः स नारीणां विषयाणां सुखस्य च
इन्द्रियार्थैर् अभिमतैर् नरचित्तप्रमाथिभिः
पुरम् आनाययिष्यामः क्षिप्रं चाध्यवसीयताम्
गणिकास् तत्र गच्छन्तु रूपवत्यः स्वलंकृताः
प्रलोभ्य विविधोपायैर् आनेष्यन्तीह सत्कृताः
श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्
पुरोहितो मन्त्रिणश् च तथा चक्रुश् च ते तदा
वारमुख्यास् तु तच् छ्रुत्वा वनं प्रविविशुर् महत्
आश्रमस्याविदूरे ऽस्मिन् यत्नं कुर्वन्ति दर्शने
ऋषिपुत्रस्य घोरस्य नित्यम् आश्रमवासिनः
पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात्
न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
स्त्री वा पुमान् वा यच् चान्यत् सत्त्वं नगरराष्ट्रजम्
ततः कदा चित् तं देशम् आजगाम यदृच्छया
विभाण्डकसुतस् तत्र ताश् चापश्यद् वराङ्गनाः
ताश् चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः
ऋषिपुत्रम् उपागम्य सर्वा वचनम् अब्रुवन्
कस् त्वं किं वर्तसे ब्रह्मञ् ज्ञातुम् इच्छामहे वयम्
एकस् त्वं विजने घोरे वने चरसि शंस नः
अदृष्टरूपास् तास् तेन काम्यरूपा वने स्त्रियः
हार्दात् तस्य मतिर् जाता आख्यातुं पितरं स्वकम्
पिता विभाण्डको ऽस्माकं तस्याहं सुत औरसः
ऋश्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि
इहाश्रमपदो ऽस्माकं समीपे शुभदर्शनाः
करिष्ये वो ऽत्र पूजां वै सर्वेषां विधिपूर्वकम्
ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिर् आस वै
तद् आश्रमपदं द्रष्टुं जग्मुः सर्वाश् च तेन ह
गतानां तु ततः पूजाम् ऋषिपुत्रश् चकार ह
इदम् अर्घ्यम् इदं पाद्यम् इदं मूलं फलं च नः
प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
ऋषेर् भीताश् च शीघ्रं तु गमनाय मतिं दधुः
अस्माकम् अपि मुख्यानि फलानीमानि वै द्विज
गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम्
ततस् तास् तं समालिङ्ग्य सर्वा हर्षसमन्विताः
मोदकान् प्रददुस् तस्मै भक्ष्यांश् च विविधाञ् शुभान्
तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते
अनास्वादितपूर्वाणि वने नित्यनिवासिना
आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च
गच्छन्ति स्मापदेशात् ता भीतास् तस्य पितुः स्त्रियः
गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः
अस्वस्थहृदयश् चासीद् दुःखं स्म परिवर्तते
ततो ऽपरेद्युस् तं देशम् आजगाम स वीर्यवान्
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः
दृष्ट्वैव च तदा विप्रम् आयान्तं हृष्टमानसाः
उपसृत्य ततः सर्वास् तास् तम् ऊचुर् इदं वचः
एह्य् आश्रमपदं सौम्य अस्माकम् इति चाब्रुवन्
तत्राप्य् एष विधिः श्रीमान् विशेषेण भविष्यति
श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम्
गमनाय मतिं चक्रे तं च निन्युस् तदा स्त्रियः
तत्र चानीयमाने तु विप्रे तस्मिन् महात्मनि
ववर्ष सहसा देवो जगत् प्रह्लादयंस् तदा
वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः
प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः
अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः
वव्रे प्रसादं विप्रेन्द्रान् मा विप्रं मन्युर् आविशेत्
अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि
शान्तां शान्तेन मनसा राजा हर्षम् अवाप सः
एवं स न्यवसत् तत्र सर्वकामैः सुपूजितः
ऋश्यशृङ्गो महातेजाः शान्तया सह भार्यया
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0