रामायण · अध्याय 1.008
तस्य त्व् एवं प्रभावस्य धर्मज्ञस्य महात्मनः
सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः
चिन्तयानस्य तस्यैवं बुद्धिर् आसीन् महात्मनः
सुतार्थं वाजिमेधेन किमर्थं न यजाम्य् अहम्
स निश्चितां मतिं कृत्वा यष्टव्यम् इति बुद्धिमान्
मन्त्रिभिः सह धर्मात्मा सर्वैर् एव कृतात्मभिः
ततो ऽब्रवीद् इदं राजा सुमन्त्रं मन्त्रिसत्तमम्
शीघ्रम् आनय मे सर्वान् गुरूंस् तान् सपुरोहितान्
एतच् छ्रुत्वा रहः सूतो राजानम् इदम् अब्रवीत्
ऋत्विग्भिर् उपदिष्टो ऽयं पुरावृत्तो मया श्रुतः
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्
ऋषीणां संनिधौ राजंस् तव पुत्रागमं प्रति
काश्यपस्य तु पुत्रो ऽस्ति विभाण्डक इति श्रुतः
ऋश्यशृङ्ग इति ख्यातस् तस्य पुत्रो भविष्यति
स वने नित्यसंवृद्धो मुनिर् वनचरः सदा
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः
लोकेषु प्रथितं राजन् विप्रैश् च कथितं सदा
तस्यैवं वर्तमानस्य कालः समभिवर्तत
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम्
एतस्मिन्न् एव काले तु लोमपादः प्रतापवान्
अङ्गेषु प्रथितो राजा भविष्यति महाबलः
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा
अनावृष्टिः सुघोरा वै सर्वभूतभयावहा
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः
ब्राह्मणाञ् श्रुतवृद्धांश् च समानीय प्रवक्ष्यति
भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः
विभाण्डकसुतं राजन् सर्वोपायैर् इहानय
आनाय्य च महीपाल ऋश्यशृङ्गं सुसत्कृतम्
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते
केनोपायेन वै शक्यम् इहानेतुं स वीर्यवान्
ततो राजा विनिश्चित्य सह मन्त्रिभिर् आत्मवान्
पुरोहितम् अमात्यांश् च प्रेषयिष्यति सत्कृतान्
ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः
न गच्छेम ऋषेर् भीता अनुनेष्यन्ति तं नृपम्
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश् च तान् क्षमान्
आनेष्यामो वयं विप्रं न च दोषो भविष्यति
एवम् अङ्गाधिपेनैव गणिकाभिर् ऋषेः सुतः
आनीतो ऽवर्षयद् देवः शान्ता चास्मै प्रदीयते
ऋश्यशृङ्गस् तु जामाता पुत्रांस् तव विधास्यति
सनत्कुमारकथितम् एतावद् व्याहृतं मया
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत
यथर्ष्यशृङ्गस् त्व् आनीतो विस्तरेण त्वयोच्यताम्
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0