भाषा

ENहिગુ
ग्रंथ पाठ

रामायण · अध्याय 1.007

1.007.001

अष्टौ बभूवुर् वीरस्य तस्यामात्या यशस्विनः
शुचयश् चानुरक्ताश् च राजकृत्येषु नित्यशः

1.007.002

धृष्टिर् जयन्तो विजयः सिद्धार्थो अर्थसाधकः
अशोको मन्त्रपालश् च सुमन्त्रश् चाष्टमो ऽभवत्

1.007.003

ऋत्विजौ द्वाव् अभिमतौ तस्यास्ताम् ऋषिसत्तमौ
वसिष्ठो वामदेवश् च मन्त्रिणश् च तथापरे

1.007.004

श्रीमन्तश् च महात्मानः शास्त्रज्ञा दृढविक्रमाः
कीर्तिमन्तः प्रणिहिता यथावचनकारिणः

1.007.005

तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः
क्रोधात् कामार्थहेतोर् वा न ब्रूयुर् अनृतं वचः

1.007.006

तेषाम् अविदितं किं चित् स्वेषु नास्ति परेषु वा
क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्

1.007.007

कुशला व्यवहारेषु सौहृदेषु परीक्षिताः
प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्व् अपि

1.007.008

कोशसंग्रहणे युक्ता बलस्य च परिग्रहे
अहितं चापि पुरुषं न विहिंस्युर् अदूषकम्

1.007.009

वीराश् च नियतोत्साहा राजशास्त्रम् अनुष्ठिताः
शुचीनां रक्षितारश् च नित्यं विषयवासिनाम्

1.007.010

ब्रह्मक्षत्रम् अहिंसन्तस् ते कोशं समपूरयन्
सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम्

1.007.011

शुचीनाम् एकबुद्धीनां सर्वेषां संप्रजानताम्
नासीत् पुरे वा राष्ट्रे वा मृषावादी नरः क्व चित्

1.007.012

कश् चिन् न दुष्टस् तत्रासीत् परदाररतिर् नरः
प्रशान्तं सर्वम् एवासीद् राष्ट्रं पुरवरं च तत्

1.007.013

सुवाससः सुवेशाश् च ते च सर्वे सुशीलिनः
हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा

1.007.014

गुरौ गुणगृहीताश् च प्रख्याताश् च पराक्रमैः
विदेशेष्व् अपि विज्ञाताः सर्वतो बुद्धिनिश्चयात्

1.007.015

ईदृशैस् तैर् अमात्यैस् तु राजा दशरथो ऽनघः
उपपन्नो गुणोपेतैर् अन्वशासद् वसुंधराम्

1.007.016

अवेक्षमाणश् चारेण प्रजा धर्मेण रञ्जयन्
नाध्यगच्छद् विशिष्टं वा तुल्यं वा शत्रुम् आत्मनः

1.007.017

तैर् मन्त्रिभिर् मन्त्रहितैर् निविष्टैर् वृतो ऽनुरक्तैः कुशलैः समर्थैः
स पार्थिवो दीप्तिम् अवाप युक्तस् तेजोमयैर् गोभिर् इवोदितो ऽर्कः

मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc