रामायण · अध्याय 1.006
पुर्यां तस्याम् अयोध्यायां वेदवित् सर्वसंग्रहः
दीर्घदर्शी महातेजाः पौरजानपदप्रियः
इक्ष्वाकूणाम् अतिरथो यज्वा धर्मरतो वशी
महर्षिकल्पो राजर्षिस् त्रिषु लोकृषु विश्रुतः
बलवान् निहतामित्रो मित्रवान् विजितेन्द्रियः
धनैश् च संचयैश् चान्यैः शक्रवैश्रवणोपमः
यथा मनुर् महातेजा लोकस्य परिरक्षिता
तथा दशरथो राजा वसञ् जगद् अपालयत्
तेन सत्याभिसंधेन त्रिवर्गम् अनुतिष्ठता
पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती
तस्मिन् पुरवरे हृष्टा धर्मात्मना बहुश्रुताः
नरास् तुष्टाधनैः स्वैः स्वैर् अलुब्धाः सत्यवादिनः
नाल्पसंनिचयः कश् चिद् आसीत् तस्मिन् पुरोत्तमे
कुटुम्बी यो ह्य् असिद्धार्थो ऽगवाश्वधनधान्यवान्
कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित्
द्रष्टुं शक्यम् अयोध्यायां नाविद्वान् न च नास्तिकः
सर्वे नराश् च नार्यश् च धर्मशीलाः सुसंयताः
मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः
नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्
नामृष्टो नानुलिप्ताङ्गो नासुगन्धश् च विद्यते
नामृष्टभोजी नादाता नाप्य् अनङ्गदनिष्कधृक्
नाहस्ताभरणो वापि दृश्यते नाप्य् अनात्मवान्
नानाहिताग्निर् नायज्वा विप्रो नाप्य् असहस्रदः
कश् चिद् आसीद् अयोध्यायां न च निर्वृत्तसंकरः
स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः
दानाध्ययनशीलाश् च संयताश् च प्रतिग्रहे
न नास्तिको नानृतको न कश् चिद् अबहुश्रुतः
नासूयको न चाशक्तो नाविद्वान् विद्यते तदा
न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश् चन
कश् चिन् नरो वा नारी वा नाश्रीमान् नाप्य् अरूपवान्
द्रष्टुं शक्यम् अयोध्यायां नापि राजन्यभक्तिमान्
वर्णेष्व् अग्र्यचतुर्थेषु देवतातिथिपूजकाः
दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः
क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रम् अनुव्रताः
शूद्राः स्वधर्मनिरतास् त्रीन् वर्णान् उपचारिणः
सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता
यथा पुरस्तान् मनुना मानवेन्द्रेण धीमता
योधानाम् अग्निकल्पानां पेशलानाम् अमर्षिणाम्
संपूर्णाकृतविद्यानां गुहाकेसरिणाम् इव
काम्बोजविषये जातैर् बाह्लीकैश् च हयोत्तमैः
वनायुजैर् नदीजैश् च पूर्णाहरिहयोपमैः
विन्ध्यपर्वतजैर् मत्तैः पूर्णा हैमवतैर् अपि
मदान्वितैर् अतिबलैर् मातङ्गैः पर्वतोपमैः
अञ्जनाद् अपि निष्क्रान्तैर् वामनाद् अपि च द्विपैः
भद्रमन्द्रैर् भद्रमृगैर् मृगमन्द्रैश् च सा पुरी
नित्यमत्तैः सदा पूर्णा नागैर् अचलसंनिभैः
सा योजने च द्वे भूयः सत्यनामा प्रकाशते
तां सत्यनामां दृढतोरणार्गलाम् गृहैर् विचित्रैर् उपशोभितां शिवाम्
पुरीम् अयोध्यां नृसहस्रसंकुलां शशास वै शक्रसमो महीपतिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0