रामायण · अध्याय 1.005
सर्वापूर्वम् इयं येषाम् आसीत् कृत्स्ना वसुंधरा
प्रजापतिम् उपादाय नृपाणां जयशालिनाम्
येषां स सगरो नाम सागरो येन खानितः
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन्
इक्ष्वाकूणाम् इदं तेषां राज्ञां वंशे महात्मनाम्
महद् उत्पन्नम् आख्यानं रामायणम् इति श्रुतम्
तद् इदं वर्तयिष्यामि सर्वं निखिलम् आदितः
धर्मकामार्थसहितं श्रोतव्यम् अनसूयया
कोसलो नाम मुदितः स्फीतो जनपदो महान्
निविष्टः सरयूतीरे प्रभूतधनधान्यवान्
अयोध्या नाम नगरी तत्रासील् लोकविश्रुता
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्
आयता दश च द्वे च योजनानि महापुरी
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा
राजमार्गेण महता सुविभक्तेन शोभिता
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः
तां तु राजा दशरथो महाराष्ट्रविवर्धनः
पुरीम् आवासयाम् आस दिवि देवपतिर् यथा
कपाटतोरणवतीं सुविभक्तान्तरापणाम्
सर्वयन्त्रायुधवतीम् उपेतां सर्वशिल्पिभिः
सूतमागधसंबाधां श्रीमतीम् अतुलप्रभाम्
उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम्
वधूनाटकसङ्घैश् च संयुक्तां सर्वतः पुरीम्
उद्यानाम्रवणोपेतां महतीं सालमेखलाम्
दुर्गगम्भीरपरिखां दुर्गाम् अन्यैर् दुरासदाम्
वाजिवारणसंपूर्णां गोभिर् उष्ट्रैः खरैस् तथा
सामन्तराजसङ्घैश् च बलिकर्मभिर् आवृताम्
नानादेशनिवासैश् च वणिग्भिर् उपशोभिताम्
प्रसादै रत्नविकृतैः पर्वतैर् उपशोभिताम्
कूटागारैश् च संपूर्णाम् इन्द्रस्येवामरावतीम्
चित्राम् अष्टापदाकारां वरनारीगणैर् युताम्
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम्
गृहगाढाम् अविच्छिद्रां समभूमौ निवेशिताम्
शालितण्डुलसंपूर्णाम् इक्षुकाण्डरसोदकाम्
दुन्दुभीभिर् मृदङ्गैश् च वीणाभिः पणवैस् तथा
नादितां भृशम् अत्यर्थं पृथिव्यां ताम् अनुत्तमाम्
विमानम् इव सिद्धानां तपसाधिगतं दिवि
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्
ये च बाणैर् न विध्यन्ति विविक्तम् अपरापरम्
शब्दवेध्यं च विततं लघुहस्ता विशारदाः
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने
हन्तारो निशितैः शस्त्रैर् बलाद् बाहुबलैर् अपि
तादृशानां सहस्रैस् ताम् अभिपूर्णां महारथैः
पुरीम् आवासयाम् आस राजा दशरथस् तदा
ताम् अग्निमद्भिर् गुणवद्भिर् आवृतां द्विजोत्तमैर् वेदषडङ्गपारगैः
सहस्रदैः सत्यरतैर् महात्मभिर् महर्षिकल्पैर् ऋषिभिश् च केवलैः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0