रामायण · अध्याय 1.004
प्राप्तराज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः
चकार चरितं कृत्स्नं विचित्रपदम् आत्मवान्
कृत्वा तु तन् महाप्राज्ञः सभविष्यं सहोत्तरम्
चिन्तयाम् आस को न्व् एतत् प्रयुञ्जीयाद् इति प्रभुः
तस्य चिन्तयमानस्य महर्षेर् भावितात्मनः
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ
कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ
भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ
वेदोपबृह्मणार्थाय ताव् अग्राहयत प्रभुः
काव्यं रामायणं कृत्स्नं सीतायाश् चरितं महत्
पौलस्त्य वधम् इत्य् एव चकार चरितव्रतः
पाठ्ये गेये च मधुरं प्रमाणैस् त्रिभिर् अन्वितम्
जातिभिः सप्तभिर् बद्धं तन्त्रीलयसमन्वितम्
हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः
बीभत्सादिरसैर् युक्तं काव्यम् एतद् अगायताम्
तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ
भ्रातरौ स्वरसंपन्नौ गन्धर्वाव् इव रूपिणौ
रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ
बिम्बाद् इवोद्धृतौ बिम्बौ रामदेहात् तथापरौ
तौ राजपुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम्
वाचो विधेयं तत् सर्वं कृत्वा काव्यम् अनिन्दितौ
ऋषीणां च द्विजातीनां साधूनां च समागमे
यथोपदेशं तत्त्वज्ञौ जगतुस् तौ समाहितौ
महात्मानौ महाभागौ सर्वलक्षणलक्षितौ
तौ कदा चित् समेतानाम् ऋषीणां भावितात्मनाम्
आसीनानां समीपस्थाव् इदं काव्यम् अगायताम्
तच् छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः
साधु साध्व् इत्य् ताव् ऊचतुः परं विस्मयम् आगताः
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः
चिरनिर्वृत्तम् अप्य् एतत् प्रत्यक्षम् इव दर्शितम्
प्रविश्य ताव् उभौ सुष्ठु तदा भावम् अगायताम्
सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा
एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर् महर्षिभिः
संरक्ततरम् अत्यर्थं मधुरं ताव् अगायताम्
प्रीतः कश् चिन् मुनिस् ताभ्यां संस्थितः कलशं ददौ
प्रसन्नो वल्कलं कश् चिद् ददौ ताभ्यां महायशाः
आश्चर्यम् इदम् आख्यानं मुनिना संप्रकीर्तितम्
परं कवीनाम् आधारं समाप्तं च यथाक्रमम्
प्रशस्यमानौ सर्वत्र कदा चित् तत्र गायकौ
रथ्यासु राजमार्गेषु ददर्श भरताग्रजः
स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ
पूजयाम् आस पूजार्हौ रामः शत्रुनिबर्हणः
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः
उपोपविष्टैः सचिवैर् भ्रातृभिश् च परंतपः
दृष्ट्वा तु रूपसंपन्नौ ताव् उभौ वीणिनौ ततः
उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा
श्रूयताम् इदम् आख्यानम् अनयोर् देववर्चसोः
विचित्रार्थपदं सम्यग् गायतोर् मधुरस्वरम्
इमौ मुनी पार्थिवलक्ष्मणान्वितौ कुशीलवौ चैव महातपस्विनौ
ममापि तद् भूतिकरं प्रचक्षते महानुभावं चरितं निबोधत
ततस् तु तौ रामवचः प्रचोदिताव् अगायतां मार्गविधानसंपदा
स चापि रामः परिषद्गतः शनैर् बुभूषयासक्तमना बभूव ह
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0