रामायण · अध्याय 1.003
श्रुत्वा वस् तु समग्रं तद् धर्मात्मा धर्मसंहितम्
व्यक्तम् अन्वेषते भूयो यद् वृत्तं तस्य धीमतः
उपस्पृश्योदकं संयन् मुनिः स्थित्वा कृताञ्जलिः
प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्
जन्म रामस्य सुमहद् वीर्यं सर्वानुकूलताम्
लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्
नानाचित्राः कथाश् चान्या विश्वामित्रसहायने
जानक्याश् च विवाहं च धनुषश् च विभेदनम्
रामरामविवादं च गुणान् दाशरथेस् तथा
तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्
व्याघातं चाभिषेकस्य रामस्य च विवासनम्
राज्ञः शोकविलापं च परलोकस्य चाश्रयम्
प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्
निषादाधिपसंवादं सूतोपावर्तनं तथा
गङ्गायाश् चापि संतारं भरद्वाजस्य दर्शनम्
भरद्वाजाभ्यनुज्ञानाच् चित्रकूटस्य दर्शनम्
वास्तुकर्मनिवेशं च भरतागमनं तथा
प्रसादनं च रामस्य पितुश् च सलिलक्रियाम्
पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम्
दण्डकारण्यगमनं सुतीक्ष्णेन समागमम्
अनसूयासमस्यां च अङ्गरागस्य चार्पणम्
शूर्पणख्याश् च संवादं विरूपकरणं तथा
वधं खरत्रिशिरसोर् उत्थानं रावणस्य च
मारीचस्य वधं चैव वैदेह्या हरणं तथा
राघवस्य विलापं च गृध्रराजनिबर्हणम्
कबन्धदर्शनं चैव पम्पायाश् चापि दर्शनम्
शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा
विलापं चैव पम्पायां राघवस्य महात्मनः
ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्
प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्
वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्
ताराविलापसमयं वर्षरात्रिनिवासनम्
कोपं राघवसिंहस्य बलानाम् उपसंग्रहम्
दिशः प्रस्थापनं चैव पृथिव्याश् च निवेदनम्
अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्
प्रायोपवेशनं चैव संपातेश् चापि दर्शनम्
पर्वतारोहणं चैव सागरस्य च लङ्घनम्
रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्
आपानभूमिगमनम् अवरोधस्य दर्शनम्
अशोकवनिकायानं सीतायाश् चापि दर्शनम्
अभिज्ञानप्रदानं च सीतायाश् चापि भाषणम्
राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्
मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
राक्षसीविद्रवं चैव किंकराणां निबर्हणम्
ग्रहणं वायुसूनोश् च लङ्कादाहाभिगर्जनम्
प्रतिप्लवनम् एवाथ मधूनां हरणं तथा
राघवाश्वासनं चैव मणिनिर्यातनं तथा
संगमं च समुद्रस्य नलसेतोश् च बन्धनम्
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्
विभीषणेन संसर्गं वधोपायनिवेदनम्
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्
रावणस्य विनाशं च सीतावाप्तिम् अरेः पुरे
बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्
अयोध्यायाश् च गमनं भरतेन समागमम्
रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्
स्वराष्ट्ररञ्जनं चैव वैदेह्याश् च विसर्जनम्
अनागतं च यत् किं चिद् रामस्य वसुधातले
तच् चकारोत्तरे काव्ये वाल्मीकिर् भगवान् ऋषिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0