रामायण · अध्याय 1.002
नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः
पूजयाम् आस धर्मात्मा सहशिष्यो महामुनिः
यथावत् पूजितस् तेन देवर्षिर् नारदस् तदा
आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसं
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस् तदा
जगाम तमसातीरं जाह्नव्यास् त्व् अविदूरतः
स तु तीरं समासाद्य तमसाया महामुनिः
शिष्यम् आह स्थितं पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम्
अकर्दमम् इदं तीर्थं भरद्वाज निशामय
रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा
न्यस्यतां कलशस् तात दीयतां वल्कलं मम
इदम् एवावगाहिष्ये तमसातीर्थम् उत्तमम्
एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना
प्रायच्छत मुनेस् तस्य वल्कलं नियतो गुरोः
स शिष्यहस्ताद् आदाय वल्कलं नियतेन्द्रियः
विचचार ह पश्यंस् तत् सर्वतो विपुलं वनम्
तस्याभ्याशे तु मिथुनं चरन्तम् अनपायिनम्
ददर्श भगवांस् तत्र क्रौञ्चयोश् चारुनिस्वनम्
तस्मात् तु मिथुनाद् एकं पुमांसं पापनिश्चयः
जघान वैरनिलयो निषादस् तस्य पश्यतः
तं शोणितपरीताङ्गं वेष्टमानं महीतले
भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्
तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम्
ऋषेर् धर्मात्मनस् तस्य कारुण्यं समपद्यत
ततः करुणवेदित्वाद् अधर्मो ऽयम् इति द्विजः
निशाम्य रुदतीं क्रौञ्चीम् इदं वचनम् अब्रवीत्
मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः
यत् क्रौञ्चमिथुनाद् एकम् अवधीः काममोहितम्
तस्यैवं ब्रुवतश् चिन्ता बभूव हृदि वीक्षतः
शोकार्तेनास्य शकुनेः किम् इदं व्याहृतं मया
चिन्तयन् स महाप्राज्ञश् चकार मतिमान् मतिम्
शिष्यं चैवाब्रवीद् वाक्यम् इदं स मुनिपुंगवः
पादबद्धो ऽक्षरसमस् तन्त्रीलयसमन्वितः
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा
शिष्यस् तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम्
प्रतिजग्राह संहृष्टस् तस्य तुष्टो ऽभवद् गुरुः
सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि
तम् एव चिन्तयन्न् अर्थम् उपावर्तत वै मुनिः
भरद्वाजस् ततः शिष्यो विनीतः श्रुतवान् गुरोः
कलशं पूर्णम् आदाय पृष्ठतो ऽनुजगाम ह
स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्
उपविष्टः कथाश् चान्याश् चकार ध्यानम् आस्थितः
आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः
चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्
वाल्मीकिर् अथ तं दृष्ट्वा सहसोत्थाय वाग् यतः
प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः
पूजयाम् आस तं देवं पाद्यार्घ्यासनवन्दनैः
प्रणम्य विधिवच् चैनं पृष्ट्वानामयम् अव्ययम्
अथोपविश्य भगवान् आसने परमार्चिते
वाल्मीकये महर्षये संदिदेशासनं ततः
उपविष्टे तदा तस्मिन् साक्षाल् लोकपितामहे
तद् गतेनैव मनसा वाल्मीकिर् ध्यानम् आस्थितः
पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना
यस् तादृशं चारुरवं क्रौञ्चं हन्याद् अकारणात्
शोचन्न् एव मुहुः क्रौञ्चीम् उपश्लोकम् इमं पुनः
जगाव् अन्तर्गतमना भूत्वा शोकपरायणः
तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम्
श्लोक एव त्वया बद्धो नात्र कार्या विचारणा
मच्छन्दाद् एव ते ब्रह्मन् प्रवृत्तेयं सरस्वती
रामस्य चरितं सर्वं कुरु त्वम् ऋषिसत्तम
धर्मात्मनो गुणवतो लोके रामस्य धीमतः
वृत्तं कथय धीरस्य यथा ते नारदाच् छ्रुतम्
रहस्यं च प्रकाशं च यद् वृत्तं तस्य धीमतः
रामस्य सह सौमित्रे राक्षसानां च सर्वशः
वैदेह्याश् चैव यद् वृत्तं प्रकाशं यदि वा रहः
तच् चाप्य् अविदितं सर्वं विदितं ते भविष्यति
न ते वाग् अनृता काव्ये का चिद् अत्र भविष्यति
कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्
यावत् स्थास्यन्ति गिरयः सरितश् च महीतले
तावद् रामायणकथा लोकेषु प्रचरिष्यति
यावद् रामस्य च कथा त्वत्कृता प्रचरिष्यति
तावद् ऊर्ध्वम् अधश् च त्वं मल्लोकेषु निवत्स्यसि
इत्य् उक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत
ततः सशिष्यो वाल्मीकिर् मुनिर् विस्मयम् आययौ
तस्य शिष्यास् ततः सर्वे जगुः श्लोकम् इमं पुनः
मुहुर् मुहुः प्रीयमाणाः प्राहुश् च भृशविस्मिताः
समाक्षरैश् चतुर्भिर् यः पादैर् गीतो महर्षिणा
सो ऽनुव्याहरणाद् भूयः शोकः श्लोकत्वम् आगतः
तस्य बुद्धिर् इयं जाता वाल्मीकेर् भावितात्मनः
कृत्स्नं रामायणं काव्यम् ईदृशैः करवाण्य् अहम्
उदारवृत्तार्थपदैर् मनोरमैस् तदास्य रामस्य चकार कीर्तिमान्
समाक्षरैः श्लोकशतैर् यशस्विनो यशस्करं काव्यम् उदारधीर् मुनिः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0