भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.89

2.89.1

रामायण, अयोध्याकाण्ड, 89
अथ शैलाद् विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
अदर्शयच् छुभजलां रम्यां मन्दाकिनीं नदीम्

2.89.2

अब्रवीच् च वरारोहां चारुचन्द्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचनः

2.89.3

विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कुसुमैर् उपसंपन्नां पश्य मन्दाकिनीं नदीम्

2.89.4

नानाविधैस् तीररुहैर् वृतां पुष्पफलद्रुमैः ।
राजन्तीं राजराजस्य नलिनीम् इव सर्वतः

2.89.5

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् ।
तीर्थानि रमणीयानि रतिं संजनयन्ति मे

2.89.6

जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषयस् त्व् अवगाहन्ते नदीं मन्दाकिनीं प्रिये

2.89.7

आदित्यम् उपतिष्ठन्ते नियमाद् ऊर्ध्वबाहवः ।
एते ऽपरे विशालाक्षि मुनयः संशितव्रताः

2.89.8

मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।
पादपैः पत्त्रपुष्पाणि सृजद्भिर् अभितो नदीम्

2.89.9

कच्चिन् मणिनिकाशोदां कच्चित् पुलिनशालिनीम् ।
कच्चित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्

2.89.10

निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान् ।
पोप्लूयमानान् अपरान् पश्य त्वं जलमध्यगान्

2.89.11

तांश् चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ।
अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः

2.89.12

दर्शनं चित्रकूटस्य मन्दाकिन्याश् च शोभने ।
अधिकं पुरवासाच् च मन्ये च तव दर्शनात्

2.89.13

विधूतकलुषैः सिद्धैस् तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां विगाहस्व मया सह

2.89.14

सखीवच् च विगाहस्व सीते मन्दाकिनीम् इमाम् ।
कमलान्य् अवमज्जन्ती पुष्कराणि च भामिनि

2.89.15

त्वं पौरजनवद् व्यालान् अयोध्याम् इव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवद् इमां नदीम्

2.89.16

लक्ष्मणश् चैव धर्मात्मा मन्निदेशे व्यवस्थितः ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम

2.89.17

उपस्पृशंस् त्रिषवणं मधुमूलफलाशनः ।
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह

2.89.18

इमां हि रम्यां गजयूथलोलितां निपीततोयां गजसिंहवानरैः ।
सुपुष्पितैः पुष्पधरैर् अलंकृतां न सो ऽस्ति यः स्यान् न गतक्रमः सुखी

2.89.19

इतीव रामो बहुसंगतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc