भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.79

2.79.1

रामायण, अयोध्याकाण्ड, 79
एवम् उक्तस् तु भरतो निषादाधिपतिं गुहम् ।
प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्

2.79.2

ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे ।
यो मे त्वम् ईदृशीं सेनाम् एको ऽभ्यर्चितुम् इच्छसि

2.79.3

इत्य् उक्त्वा तु महातेजा गुहं वचनम् उत्तमम् ।
अब्रवीद् भरतः श्रीमान् निषादाधिपतिं पुनः

2.79.4

कतरेण गमिष्यामि भरद्वाजाश्रमं गुह ।
गहनो ऽयं भृशं देशो गङ्गानूपो दुरत्ययः

2.79.5

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
अब्रवीत् प्राञ्जलिर् वाक्यं गुहो गहनगोचरः

2.79.6

दाशास् त्व् अनुगमिष्यन्ति धन्विनः सुसमाहिताः ।
अहं चानुगमिष्यामि राजपुत्र महायशः

2.79.7

कच्चिन् न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः ।
इयं ते महती सेना शङ्कां जनयतीव मे

2.79.8

तम् एवम् अभिभाषन्तम् आकाश इव निर्मलः ।
भरतः श्लक्ष्णया वाचा गुहं वचनम् अब्रवीत्

2.79.9

मा भूत् स कालो यत् कष्टं न मां शङ्कितुम् अर्हसि ।
राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम

2.79.10

तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम् ।
बुद्धिर् अन्या न ते कार्या गुह सत्यं ब्रवीमि ते

2.79.11

स तु संहृष्टवदनः श्रुत्वा भरतभाषितम् ।
पुनर् एवाब्रवीद् वाक्यं भरतं प्रति हर्षितः

2.79.12

धन्यस् त्वं न त्वया तुल्यं पश्यामि जगतीतले ।
अयत्नाद् आगतं राज्यं यस् त्वं त्यक्तुम् इहेच्छसि

2.79.13

शाश्वती खलु ते कीर्तिर् लोकान् अनुचरिष्यति ।
यस् त्वं कृच्छ्रगतं रामं प्रत्यानयितुम् इच्छसि

2.79.14

एवं सम्भाषमाणस्य गुहस्य भरतं तदा ।
बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत

2.79.15

संनिवेश्य स तां सेनां गुहेन परितोषितः ।
शत्रुघ्नेन सह श्रीमाञ् शयनं पुनर् आगमत्

2.79.16

रामचिन्तामयः शोको भरतस्य महात्मनः ।
उपस्थितो ह्य् अनर्हस्य धर्मप्रेक्षस्य तादृशः

2.79.17

अन्तर्दाहेन दहनः संतापयति राघवम् ।
वनदाहाभिसंतप्तं गूढो ऽग्निर् इव पादपम्

2.79.18

प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसम्भवः ।
यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम्

2.79.19

ध्याननिर्दरशैलेन विनिःश्वसितधातुना ।
दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा

2.79.20

प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना ।
आक्रान्तो दुःखशैलेन महता कैकयीसुतः

2.79.21

गुहेन सार्धं भरतः समागतो महानुभावः सजनः समाहितः ।
सुदुर्मनास् तं भरतं तदा पुनर् गुहः समाश्वासयद् अग्रजं प्रति

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc