रामायण (दक्षिणी पाठ) · अध्याय 2.78
रामायण, अयोध्याकाण्ड, 78
ततो निविष्टां ध्वजिनीं गङ्गाम् अन्वाश्रितां नदीम् ।
निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितो ऽब्रवीत्
महतीयम् अतः सेना सागराभा प्रदृश्यते ।
नास्यान्तम् अवगच्छामि मनसापि विचिन्तयन्
स एष हि महाकायः कोविदारध्वजो रथे ।
बन्धयिष्यति वा दाशान् अथ वास्मान् वधिष्यति
अथ दाशरथिं रामं पित्रा राज्याद् विवासितम् ।
भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति
भर्ता चैव सखा चैव रामो दाशरथिर् मम ।
तस्यार्थकामाः संनद्धा गङ्गानूपे ऽत्र तिष्ठत
तिष्ठन्तु सर्वदाशाश् च गङ्गाम् अन्वाश्रिता नदीम् ।
बलयुक्ता नदीरक्षा मांसमूलफलाशनाः
नावां शतानां पञ्चानां कैवर्तानां शतं शतम् ।
संनद्धानां तथा यूनां तिष्ठन्त्व् इत्य् अभ्यचोदयत्
यदा तुष्टस् तु भरतो रामस्येह भविष्यति ।
सेयं स्वस्तिमयी सेना गङ्गाम् अद्य तरिष्यति
इत्य् उक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च ।
अभिचक्राम भरतं निषादाधिपतिर् गुहः
तम् आयान्तं तु सम्प्रेक्ष्य सूतपुत्रः प्रतापवान् ।
भरतायाचचक्षे ऽथ विनयज्ञो विनीतवत्
एष ज्ञातिसहस्रेण स्थपतिः परिवारितः ।
कुशलो दण्डकारण्ये वृद्धो भ्रातुश् च ते सखा
तस्मात् पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः ।
असंशयं विजानीते यत्र तौ रामलक्ष्मणौ
एतत् तु वचनं श्रुत्वा सुमन्त्राद् भरतः शुभम् ।
उवाच वचनं शीघ्रं गुहः पश्यतु माम् इति
लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः ।
आगम्य भरतं प्रह्वो गुहो वचनम् अब्रवीत्
निष्कुटश् चैव देशो ऽयं वञ्चिताश् चापि ते वयम् ।
निवेदयामस् ते सर्वे स्वके दाशकुले वस
अस्ति मूलं फलं चैव निषादैः समुपाहृतम् ।
आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत्
आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम् ।
अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0