भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.77

2.77.1

रामायण, अयोध्याकाण्ड, 77
ततः समुत्थितः काल्यम् आस्थाय स्यन्दनोत्तमम् ।
प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया

2.77.2

अग्रतः प्रययुस् तस्य सर्वे मन्त्रिपुरोधसः ।
अधिरुह्य हयैर् युक्तान् रथान् सूर्यरथोपमान्

2.77.3

नवनागसहस्राणि कल्पितानि यथाविधि ।
अन्वयुर् भरतं यान्तम् इक्ष्वाकुकुलनन्दनम्

2.77.4

षष्ठी रथसहस्राणि धन्विनो विविधायुधाः ।
अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम्

2.77.5

शतं सहस्राण्य् अश्वानां समारूढानि राघवम् ।
अन्वयुर् भरतं यान्तं राजपुत्रं यशस्विनम्

2.77.6

कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।
रामानयनसंहृष्टा ययुर् यानेन भास्वता

2.77.7

प्रयाताश् चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् ।
तस्यैव च कथाश् चित्राः कुर्वाणा हृष्टमानसाः

2.77.8

मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।
कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्

2.77.9

दृष्ट एव हि नः शोकम् अपनेष्यति राघवः ।
तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः

2.77.10

इत्य् एवं कथयन्तस् ते सम्प्रहृष्टाः कथाः शुभाः ।
परिष्वजानाश् चान्योन्यं ययुर् नागरिकास् तदा

2.77.11

ये च तत्रापरे सर्वे संमता ये च नैगमाः ।
रामं प्रति ययुर् हृष्टाः सर्वाः प्रकृतयस् तदा

2.77.12

मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः

2.77.13

मायूरकाः क्राकचिका रोचका वेधकास् तथा ।
दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः

2.77.14

सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास् तथा

2.77.15

रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
शैलूषाश् च सह स्त्रीभिर् यान्ति कैवर्तकास् तथा

2.77.16

समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः ।
गोरथैर् भरतं यान्तम् अनुजग्मुः सहस्रशः

2.77.17

सुवेषाः शुद्धवसनास् ताम्रमृष्टानुलेपनाः ।
सर्वे ते विविधैर् यानैः शनैर् भरतम् अन्वयुः

2.77.18

प्रहृष्टमुदिता सेना सान्वयात् कैकयीसुतम् ।
व्यवातिष्ठत सा सेना भरतस्यानुयायिनी

2.77.19

निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् ।
भरतः सचिवान् सर्वान् अब्रवीद् वाक्यकोविदः

2.77.20

निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः ।
विश्रान्ताः प्रतरिष्यामः श्व इदानीं महानदीम्

2.77.21

दातुं च तावद् इच्छामि स्वर् गतस्य महीपतेः ।
और्ध्वदेहनिमित्तार्थम् अवतीर्योदकं नदीम्

2.77.22

तस्यैवं ब्रुवतो ऽमात्यास् तथेत्य् उक्त्वा समाहिताः ।
न्यवेशयंस् तांश् छन्देन स्वेन स्वेन पृथक्पृथक्

2.77.23

निवेश्य गङ्गाम् अनु तां महानदीं चमूं विधानैः परिबर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc