रामायण (दक्षिणी पाठ) · अध्याय 2.63
रामायण, अयोध्याकाण्ड, 63
याम् एव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।
भरतेनापि तां रात्रिं स्वप्नो दृष्टो ऽयम् अप्रियः
व्युष्टाम् एव तु तां रात्रिं दृष्ट्वा तं स्वप्नम् अप्रियम् ।
पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत
तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।
आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः
वादयन्ति तथा शान्तिं लासयन्त्य् अपि चापरे ।
नाटकान्य् अपरे प्राहुर् हास्यानि विविधानि च
स तैर् महात्मा भरतः सखिभिः प्रियवादिभिः ।
गोष्ठीहास्यानि कुर्वद्भिर् न प्राहृष्यत राघवः
तम् अब्रवीत् प्रियसखो भरतं सखिभिर् वृतम् ।
सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे
एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।
शृणु त्वं यन्निमित्तं मे दैन्यम् एतद् उपागतम्
स्वप्ने पितरम् अद्राक्षं मलिनं मुक्तमूर्धजम् ।
पतन्तम् अद्रिशिखरात् कलुषे गोमयह्रदे
प्लवमानश् च मे दृष्टः स तस्मिन् गोमयह्रदे ।
पिबन्न् अञ्जलिना तैलं हसन्न् इव मुहुर् मुहुः
ततस् तिलोदनं भुक्त्वा पुनः पुनर् अधःशिराः ।
तैलेनाभ्यक्तसर्वाङ्गस् तैलम् एवावगाहत
स्वप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि ।
सहसा चापि संशान्तं ज्वलितं जातवेदसम्
अवदीर्णां च पृथिवीं शुष्कांश् च विविधान् द्रुमान् ।
अहं पश्यामि विध्वस्तान् सधूमांश् चैव पर्वतान्
पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् ।
प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः
त्वरमाणश् च धर्मात्मा रक्तमाल्यानुलेपनः ।
रथेन खरयुक्तेन प्रयातो दक्षिणामुखः
एवम् एतन् मया दृष्टम् इमां रात्रिं भयावहाम् ।
अहं रामो ऽथ वा राजा लक्ष्मणो वा मरिष्यति
नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ।
अचिरात् तस्य धूमाग्रं चितायां सम्प्रदृश्यते ।
एतन्निमित्तं दीनो ऽहं तन् न वः प्रतिपूजये ॥ रम्स्_2,63.16* ॥
शुष्यतीव च मे कण्ठो न स्वस्थम् इव मे मनः ।
जुगुप्सन्न् इव चात्मानं न च पश्यामि कारणम्
इमां हि दुःस्वप्नगतिं निशाम्य ताम् अनेकरूपाम् अवितर्कितां पुरा ।
भयं महत् तद्धृदयान् न याति मे विचिन्त्य राजानम् अचिन्त्यदर्शनम्
मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0