भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.52

2.52.1

रामायण, अयोध्याकाण्ड, 52
प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः ।
अथाजुहाव तं सूतं रामवृत्तान्तकारणात्

2.52.2

वृद्धं परमसंतप्तं नवग्रहम् इव द्विपम् ।
विनिःश्वसन्तं ध्यायन्तम् अस्वस्थम् इव कुञ्जरम्

2.52.3

राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनम् उवाच परमार्तवत्

2.52.5

क्व नु वत्स्यति धर्मात्मा वृक्षमूलम् उपाश्रितः ।
सो ऽत्यन्तसुखितः सूत किम् अशिष्यति राघवः ।
भूमिपालात्मजो भूमौ शेते कथम् अनाथवत् ॥ रम्स्_2,52.4* ॥
यं यान्तम् अनुयान्ति स्म पदातिरथकुञ्जराः ।
स वत्स्यति कथं रामो विजनं वनम् आश्रितः

2.52.6

व्यालैर् मृगैर् आचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्या सार्धं वनम् उपस्थितौ

2.52.7

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया ।
राजपुत्रौ कथं पादैर् अवरुह्य रथाद् गतौ

2.52.8

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ ।
वनान्तं प्रविशन्तौ ताव् अश्विनाव् इव मन्दरम्

2.52.10

किम् उवाच वचो रामः किम् उवाच च लक्ष्मणः ।
सुमन्त्र वनम् आसाद्य किम् उवाच च मैथिली ।
आसितं शयितं भुक्तं सूत रामस्य कीर्तय ॥ रम्स्_2,52.9* ॥
इति सूतो नरेन्द्रेण चोदितः सज्जमानया ।
उवाच वाचा राजानं सबाष्पपरिरब्धया

2.52.11

अब्रवीन् मां महाराज धर्मम् एवानुपालयन् ।
अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च

2.52.12

सूत मद्वचनात् तस्य तातस्य विदितात्मनः ।
शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः

2.52.13

सर्वम् अन्तःपुरं वाच्यं सूत मद्वचनात् त्वया ।
आरोग्यम् अविशेषेण यथार्हं चाभिवादनम्

2.52.14

माता च मम कौसल्या कुशलं चाभिवादनम् ।
देवि देवस्य पादौ च देववत् परिपालय

2.52.15

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।
सर्वास्व् एव यथान्यायं वृत्तिं वर्तस्व मातृषु

2.52.16

वक्तव्यश् च महाबाहुर् इक्ष्वाकुकुलनन्दनः ।
पितरं यौवराज्यस्थो राज्यस्थम् अनुपालय

2.52.17

इत्य् एवं मां महाराज ब्रुवन्न् एव महायशाः ।
रामो राजीवताम्राक्षो भृशम् अश्रूण्य् अवर्तयत्

2.52.18

लक्ष्मणस् तु सुसंक्रुद्धो निःश्वसन् वाक्यम् अब्रवीत् ।
केनायम् अपराधेन राजपुत्रो विवासितः

2.52.20

यदि प्रव्राजितो रामो लोभकारणकारितम् ।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ।
रामस्य तु परित्यागे न हेतुम् उपलक्षये ॥ रम्स्_2,52.19* ॥
असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ।
जनयिष्यति संक्रोशं राघवस्य विवासनम्

2.52.21

अहं तावन् महाराजे पितृत्वं नोपलक्षये ।
भ्राता भर्ता च बन्धुश् च पिता च मम राघवः

2.52.22

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।
सर्वलोको ऽनुरज्येत कथं त्वानेन कर्मणा

2.52.23

जानकी तु महाराज निःश्वसन्ती तपस्विनी ।
भूतोपहतचित्तेव विष्ठिता विस्मृता स्थिता

2.52.24

अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी ।
तेन दुःखेन रुदती नैव मां किंचिद् अब्रवीत्

2.52.25

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पं मां प्रयान्तम् उदीक्ष्य सा

2.52.26

तथैव रामो ऽश्रुमुखः कृताञ्जलिः स्थितो ऽभवल् लक्ष्मणबाहुपालितः ।
तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc