भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (दक्षिणी पाठ) · अध्याय 2.50

2.50.1

रामायण, अयोध्याकाण्ड, 50
अथ रात्र्यां व्यतीतायाम् अवसुप्तम् अनन्तरम् ।
प्रबोधयामास शनैर् लक्ष्मणं रघुनन्दनः

2.50.2

सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।
सम्प्रतिष्ठामहे कालः प्रस्थानस्य परंतप

2.50.3

स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।
जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्

2.50.4

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।
पन्थानम् ऋषिणोद्दिष्टं चित्रकूटस्य तं ययुः

2.50.5

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह ।
सीतां कमलपत्त्राक्षीम् इदं वचनम् अब्रवीत्

2.50.6

आदीप्तान् इव वैदेहि सर्वतः पुष्पितान् नगान् ।
स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये

2.50.7

पश्य भल्लातकान् फुल्लान् नरैर् अनुपसेवितान् ।
फलपत्त्रैर् अवनतान् नूनं शक्ष्यामि जीवितुम्

2.50.8

पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण ।
मधूनि मधुकारीभिः संभृतानि नगे नगे

2.50.9

एष क्रोशति नत्यूहस् तं शिखी प्रतिकूजति ।
रमणीये वनोद्देशे पुष्पसंस्तरसंकटे

2.50.10

मातंगयूथानुसृतं पक्षिसंघानुनादितम् ।
चित्रकूटम् इमं पश्य प्रवृद्धशिखरं गिरिम्

2.50.11

ततस् तौ पादचारेण गच्छन्तौ सह सीतया ।
रम्यम् आसेदतुः शैलं चित्रकूटं मनोरमम्

2.50.12

तं तु पर्वतम् आसाद्य नानापक्षिगणायुतम् ।
अयं वासो भवेत् तावद् अत्र सौम्य रमेमहि

2.50.13

लक्ष्मणानय दारूणि दृढानि च वराणि च ।
कुरुष्वावसथं सौम्य वासे मे ऽभिरतं मनः

2.50.14

तस्य तद्वचनं श्रुत्वा सौमित्रिर् विविधान् द्रुमान् ।
आजहार ततश् चक्रे पर्णशालाम् अरिंदमः

2.50.15

शुश्रूषमाणम् एकाग्रम् इदं वचनम् अब्रवीत् ।
ऐणेयं मांसम् आहृत्य शालां यक्ष्यामहे वयम्

2.50.16

स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् ।
अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि

2.50.17

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।
लक्ष्मणः पुरुषव्याघ्रम् अथ राघवम् अब्रवीत्

2.50.18

अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगो यथा ।
देवता देवसंकाश यजस्व कुशलो ह्य् असि

2.50.19

रामः स्नात्वा तु नियतो गुणवाञ् जप्यकोविदः ।
पापसंशमनं रामश् चकार बलिम् उत्तमम्

2.50.20

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।
वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम्

2.50.21

अनेकनानामृगपक्षिसंकुले विचित्रपुष्पस्तबकैर् द्रुमैर् युते ।
वनोत्तमे व्यालमृगानुनादिते तथा विजह्रुः सुसुखं जितेन्द्रियाः

2.50.22

सुरम्यम् आसाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।
ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात्

मूल पाठ: Rāmāyaṇa-southern-2 · Edition: T.R. Krishnacarya: The Valmiki Ramayana - According to Southern recension, 1905 (Repr. Delhi : Sri Satguru Publications, 1982) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc