भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.9

3.9.1

वाक्यम् एतत् तु वैदेह्या व्याहृतं भर्तृभक्तया
श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥

3.9.2

हितम् उक्तं त्वया देवि स्निग्धया सदृशं वचः
कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ॥

3.9.3

किं तु वक्ष्याम्य् अहं देवि त्वयैवोक्तम् इदं वचः
क्षत्रियैर् धार्यते चापो नार्तशब्दो भवेद् इति ॥

3.9.4

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः
मां सीते स्वयम् आगम्य शरण्याः शरणं गताः ॥

3.9.5

वसन्तो धर्मनिरता वने मूलफलाशनाः
न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥

3.9.6

काले काले च निरता नियमैर् विविधैर् वने
भक्ष्यन्ते राक्षसैर् भीमैर् नरमांसोपजीविभिः ॥

3.9.7

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः
अस्मान् अभ्यवपद्येति माम् ऊचुर् द्विजसत्तमाः ॥

3.9.8

मया तु वचनं श्रुत्वा तेषाम् एवं मुखाच् च्युतम्
कृत्वा चरणशुश्रूषां वाक्यम् एतद् उदाहृतम् ॥

3.9.9

प्रसीदन्तु भवन्तो मे ह्रीर् एषा हि ममातुला
यदीदृशैर् अहं विप्रैर् उपस्थेयैर् उपस्थितः
किं करोमीति च मया व्याहृतं द्विजसंनिधौ ॥

3.9.10

सर्वैर् एव समागम्य वाग् इयं समुदाहृता
राक्षसैर् दण्डकारण्ये बहुभिः कामरूपिभिः
अर्दिताः स्म भृशं राम भवान् नस् त्रातुम् अर्हति ॥

3.9.11

होमकाले तु सम्प्राप्ते पर्वकालेषु चानघ
धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः ॥

3.9.12

राक्षसैर् धर्षितानां च तापसानां तपस्विनाम्
गतिं मृगयमाणानां भवान् नः परमा गतिः ॥

3.9.13

कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान्
चिरार्जितं तु नेच्छामस् तपः खण्डयितुं वयम् ॥

3.9.14

बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव
तेन शापं न मुञ्चामो भक्ष्यमाणाश् च राक्षसैः ॥

3.9.15

तद् अर्द्यमानान् रक्षोभिर् दण्डकारण्यवासिभिः
रक्ष नस् त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ॥

3.9.16

मया चैतद् वचः श्रुत्वा कार्त्स्न्येन परिपालनम्
ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ॥

3.9.17

संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्
मुनीनाम् अन्यथा कर्तुं सत्यम् इष्टं हि मे सदा ॥

3.9.18

अप्य् अहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्
न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥

3.9.19

तद् अवश्यं मया कार्यम् ऋषीणां परिपालनम्
अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः ॥

3.9.20

मम स्नेहाच् च सौहार्दाद् इदम् उक्तं त्वया वचः
परितुष्टो ऽस्म्य् अहं सीते न ह्य् अनिष्टो ऽनुशिष्यते
सदृशं चानुरूपं च कुलस्य तव शोभने ॥

3.9.21

इत्य् एवम् उक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्
रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc