भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.8

3.8.1

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्
वैदेही स्निग्धया वाचा भर्तारम् इदम् अब्रवीत् ॥

3.8.2

अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान्
निवृत्तेन च शक्यो ऽयं व्यसनात् कामजाद् इह ॥

3.8.3

त्रीण्य् एव व्यसनान्य् अत्र कामजानि भवन्त्य् उत
मिथ्यावाक्यं परमकं तस्माद् गुरुतराव् उभौ
परदाराभिगमनं विना वैरं च रौद्रता ॥

3.8.4

मिथ्यावाक्यं न ते भूतं न भविष्यति राघव
कुतो ऽभिलषणं स्त्रीणां परेषां धर्मनाशनम् ॥

3.8.5

तच् च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः
तव वश्येन्द्रियत्वं च जानामि शुभदर्शन ॥

3.8.6

तृतीयं यद् इदं रौद्रं परप्राणाभिहिंसनम्
निर्वैरं क्रियते मोहात् तच् च ते समुपस्थितम् ॥

3.8.7

प्रतिज्ञातस् त्वया वीर दण्डकारण्यवासिनाम्
ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम् ॥

3.8.8

एतन्निमित्तं च वनं दण्डका इति विश्रुतम्
प्रस्थितस् त्वं सह भ्रात्रा धृतबाणशरासनः ॥

3.8.9

ततस् त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः
त्वद्वृत्तं चिन्तयन्त्या वै भवेन् निःश्रेयसं हितम् ॥

3.8.10

न हि मे रोचते वीर गमनं दण्डकान् प्रति
कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥

3.8.11

त्वं हि बाणधनुष्पाणिर् भ्रात्रा सह वनं गतः
दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याः शरव्ययम् ॥

3.8.12

क्षत्रियाणाम् इह धनुर् हुताशस्येन्धनानि च
समीपतः स्थितं तेजो बलम् उच्छ्रयते भृशम् ॥

3.8.13

पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः
कस्मिंश्चिद् अभवत् पुण्ये वने रतमृगद्विजे ॥

3.8.14

तस्यैव तपसो विघ्नं कर्तुम् इन्द्रः शचीपतिः
खड्गपाणिर् अथागच्छद् आश्रमं भटरूपधृक् ॥

3.8.15

तस्मिंस् तदाश्रमपदे निहितः खड्ग उत्तमः
स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥

3.8.16

स तच् छस्त्रम् अनुप्राप्य न्यासरक्षणतत्परः
वने तु विचरत्य् एव रक्षन् प्रत्ययम् आत्मनः ॥

3.8.17

यत्र गच्छत्य् उपादातुं मूलानि च फलानि च
न विना याति तं खड्गं न्यासरक्षणतत्परः ॥

3.8.18

नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः
चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥

3.8.19

ततः स रौद्राभिरतः प्रमत्तो ऽधर्मकर्षितः
तस्य शस्त्रस्य संवासाज् जगाम नरकं मुनिः ॥

3.8.20

स्नेहाच् च बहुमानाच् च स्मारये त्वां न शिक्षये
न कथंचन सा कार्या गृहीतधनुषा त्वया ॥

3.8.21

बुद्धिर् वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्
अपराधं विना हन्तुं लोकान् वीर न कामये ॥

3.8.22

क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्
धनुषा कार्यम् एतावद् आर्तानाम् अभिरक्षणम् ॥

3.8.23

क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च
व्याविद्धम् इदम् अस्माभिर् देशधर्मस् तु पूज्यताम् ॥

3.8.24

तदार्य कलुषा बुद्धिर् जायते शस्त्रसेवनात्
पुनर् गत्वा त्व् अयोध्यायां क्षत्रधर्मं चरिष्यसि ॥

3.8.25

अक्षया तु भवेत् प्रीतिः श्वश्रूश्वशुरयोर् मम
यदि राज्यं हि संन्यस्य भवेस् त्वं निरतो मुनिः ॥

3.8.26

धर्माद् अर्थः प्रभवति धर्मात् प्रभवते सुखम्
धर्मेण लभते सर्वं धर्मसारम् इदं जगत् ॥

3.8.27

आत्मानं नियमैस् तैस् तैः कर्षयित्वा प्रयत्नतः
प्राप्यते निपुणैर् धर्मो न सुखाल् लभ्यते सुखम् ॥

3.8.28

नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने
सर्वं हि विदितं तुभ्यं त्रैलोक्यम् अपि तत्त्वतः ॥

3.8.29

स्त्रीचापलाद् एतद् उदाहृतं मे धर्मं च वक्तुं तव कः समर्थः
विचार्य बुद्ध्या तु सहानुजेन यद् रोचते तत् कुरु माचिरेण ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc