रामायण (संशोधित पाठ) · अध्याय 3.10
अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा
पृष्ठतस् तु धनुष्पाणिर् लक्ष्मणो ऽनुजगाम ह ॥
तौ पश्यमानौ विविधाञ् शैलप्रस्थान् वनानि च
नदीश् च विविधा रम्या जग्मतुः सह सीतया ॥
सारसांश् चक्रवाकांश् च नदीपुलिनचारिणः
सरांसि च सपद्मानि युतानि जलजैः खगैः ॥
यूथबद्धांश् च पृषतान् मदोन्मत्तान् विषाणिनः
महिषांश् च वराहांश् च गजांश् च द्रुमवैरिणः ॥
ते गत्वा दूरम् अध्वानं लम्बमाने दिवाकरे
ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥
पद्मपुष्करसम्बाधं गजयूथैर् अलंकृतम्
सारसैर् हंसकादम्बैः संकुलं जलचारिभिः ॥
प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥
ततः कौतूहलाद् रामो लक्ष्मणश् च महारथः
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥
इदम् अत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने
कौतूहलं महज् जातं किम् इदं साधु कथ्यताम् ॥
तेनैवम् उक्तो धर्मात्मा राघवेण मुनिस् तदा
प्रभावं सरसः कृत्स्नम् आख्यातुम् उपचक्रमे ॥
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्
निर्मितं तपसा राम मुनिना माण्डकर्णिना ॥
स हि तेपे तपस् तीव्रं माण्डकर्णिर् महामुनिः
दशवर्षसहस्राणि वायुभक्षो जलाश्रयः ॥
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः
अब्रुवन् वचनं सर्वे परस्परसमागताः
अस्माकं कस्यचित् स्थानम् एष प्रार्थयते मुनिः ॥
ततः कर्तुं तपोविघ्नं सर्वैर् देवैर् नियोजिताः
प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः ॥
अप्सरोभिस् ततस् ताभिर् मुनिर् दृष्टपरावरः
नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥
ताश् चैवाप्सरसः पञ्च मुनेः पत्नीत्वम् आगताः
तटाके निर्मितं तासाम् अस्मिन्न् अन्तर्हितं गृहम् ॥
तत्रैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्
रमयन्ति तपोयोगान् मुनिं यौवनम् आस्थितम् ॥
तासां संक्रीडमानानाम् एष वादित्रनिःस्वनः
श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ॥
आश्चर्यम् इति तस्यैतद् वचनं भावितात्मनः
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥
एवं कथयमानस्य ददर्शाश्रममण्डलम्
कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम् ॥
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः
तदा तस्मिन् स काकुत्स्थः श्रीमत्य् आश्रममण्डले ॥
उषित्वा सुसुखं तत्र पूज्यमानो महर्षिभिः
जगाम चाश्रमांस् तेषां पर्यायेण तपस्विनाम् ॥
येषाम् उषितवान् पूर्वं सकाशे स महास्त्रवित्
क्वचित् परिदशान् मासान् एकं संवत्सरं क्वचित् ॥
क्वचिच् च चतुरो मासान् पञ्चषट् चापरान् क्वचित्
अपरत्राधिकान् मासान् अध्यर्धम् अधिकं क्वचित् ॥
त्रीन् मासान् अष्टमासांश् च राघवो न्यवसत् सुखम्
तथा संवसतस् तस्य मुनीनाम् आश्रमेषु वै
रमतश् चानुकूल्येन ययुः संवत्सरा दश ॥
परिसृत्य च धर्मज्ञो राघवः सह सीतया
सुतीक्ष्णस्याश्रमं श्रीमान् पुनर् एवाजगाम ह ॥
स तम् आश्रमम् आगम्य मुनिभिः प्रतिपूजितः
तत्रापि न्यवसद् रामः कंचित् कालम् अरिंदमः ॥
अथाश्रमस्थो विनयात् कदाचित् तं महामुनिम्
उपासीनः स काकुत्स्थः सुतीक्ष्णम् इदम् अब्रवीत् ॥
अस्मिन्न् अरण्ये भगवन्न् अगस्त्यो मुनिसत्तमः
वसतीति मया नित्यं कथाः कथयतां श्रुतम् ॥
न तु जानामि तं देशं वनस्यास्य महत्तया
कुत्राश्रमपदं पुण्यं महर्षेस् तस्य धीमतः ॥
प्रसादात् तत्र भवतः सानुजः सह सीतया
अगस्त्यम् अभिगच्छेयम् अभिवादयितुं मुनिम् ॥
मनोरथो महान् एष हृदि सम्परिवर्तते
यद् अहं तं मुनिवरं शुश्रूषेयम् अपि स्वयम् ॥
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥
अहम् अप्य् एतद् एव त्वां वक्तुकामः सलक्ष्मणम्
अगस्त्यम् अभिगच्छेति सीतया सह राघव ॥
दिष्ट्या त्व् इदानीम् अर्थे ऽस्मिन् स्वयम् एव ब्रवीषि माम्
अहम् आख्यासि ते वत्स यत्रागस्त्यो महामुनिः ॥
योजनान्य् आश्रमात् तात याहि चत्वारि वै ततः
दक्षिणेन महाञ् श्रीमान् अगस्त्यभ्रातुर् आश्रमः ॥
स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते
बहुपुष्पफले रम्ये नानाशकुनिनादिते ॥
पद्मिन्यो विविधास् तत्र प्रसन्नसलिलाः शिवाः
हंसकारण्डवाकीर्णाश् चक्रवाकोपशोभिताः ॥
तत्रैकां रजनीम् उष्य प्रभाते राम गम्यताम्
दक्षिणां दिशम् आस्थाय वनखण्डस्य पार्श्वतः ॥
तत्रागस्त्याश्रमपदं गत्वा योजनम् अन्तरम्
रमणीये वनोद्देशे बहुपादपसंवृते
रंस्यते तत्र वैदेही लक्ष्मणश् च त्वया सह ॥
स हि रम्यो वनोद्देशो बहुपादपसंकुलः
यदि बुद्धिः कृता द्रष्टुम् अगस्त्यं तं महामुनिम्
अद्यैव गमने बुद्धिं रोचयस्व महायशः ॥
इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च
प्रतस्थे ऽगस्त्यम् उद्दिश्य सानुजः सह सीतया ॥
पश्यन् वनानि चित्राणि पर्वतांश् चाभ्रसंनिभान्
सरांसि सरितश् चैव पथि मार्गवशानुगाः ॥
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्
इदं परमसंहृष्टो वाक्यं लक्ष्मणम् अब्रवीत् ॥
एतद् एवाश्रमपदं नूनं तस्य महात्मनः
अगस्त्यस्य मुनेर् भ्रातुर् दृश्यते पुण्यकर्मणः ॥
यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः
संनताः फलभारेण पुष्पभारेण च द्रुमाः ॥
पिप्पलीनां च पक्वानां वनाद् अस्माद् उपागतः
गन्धो ऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥
तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः
लूनाश् च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥
एतच् च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्
पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ॥
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः
पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयम् आर्जितैः ॥
तत् सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्
अगस्त्यस्याश्रमो भ्रातुर् नूनम् एष भविष्यति ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया
यस्य भ्रात्रा कृतेयं दिक् शरण्या पुण्यकर्मणा ॥
इहैकदा किल क्रूरो वातापिर् अपि चेल्वलः
भ्रातरौ सहिताव् आस्तां ब्राह्मणघ्नौ महासुरौ ॥
धारयन् ब्राह्मणं रूपम् इल्वलः संस्कृतं वदन्
आमन्त्रयति विप्रान् स श्राद्धम् उद्दिश्य निर्घृणः ॥
भ्रातरं संस्कृतं भ्राता ततस् तं मेषरूपिणम्
तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥
ततो भुक्तवतां तेषां विप्राणाम् इल्वलो ऽब्रवीत्
वातापे निष्क्रमस्वेति स्वरेण महता वदन् ॥
ततो भ्रातुर् वचः श्रुत्वा वातापिर् मेषवन् नदन्
भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ॥
ब्राह्मणानां सहस्राणि तैर् एवं कामरूपिभिः
विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा
अनुभूय किल श्राद्धे भक्षितः स महासुरः ॥
ततः सम्पन्नम् इत्य् उक्त्वा दत्त्वा हस्तावसेचनम्
भ्रातरं निष्क्रमस्वेति इल्वलः सो ऽभ्यभाषत ॥
तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम्
अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः ॥
कुतो निष्क्रमितुं शक्तिर् मया जीर्णस्य रक्षसः
भ्रातुस् ते मेषरूपस्य गतस्य यमसादनम् ॥
अथ तस्य वचः श्रुत्वा भ्रातुर् निधनसंश्रितम्
प्रधर्षयितुम् आरेभे मुनिं क्रोधान् निशाचरः ॥
सो ऽभ्यद्रवद् द्विजेन्द्रं तं मुनिना दीप्ततेजसा
चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ॥
तस्यायम् आश्रमो भ्रातुस् तटाकवनशोभितः
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥
एवं कथयमानस्य तस्य सौमित्रिणा सह
रामस्यास्तं गतः सूर्यः संध्याकालो ऽभ्यवर्तत ॥
उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि
प्रविवेशाश्रमपदं तम् ऋषिं चाभ्यवादयन् ॥
सम्यक् प्रतिगृहीतस् तु मुनिना तेन राघवः
न्यवसत् तां निशाम् एकां प्राश्य मूलफलानि च ॥
तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले
भ्रातरं तम् अगस्त्यस्य आमन्त्रयत राघवः ॥
अभिवादये त्वा भगवन् सुखम् अध्युषितो निशाम्
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुम् अग्रजम् ॥
गम्यताम् इति तेनोक्तो जगाम रघुनन्दनः
यथोद्दिष्टेन मार्गेण वनं तच् चावलोकयन् ॥
नीवारान् पनसांस् तालांस् तिमिशान् वञ्जुलान् धवान्
चिरिबिल्वान् मधूकांश् च बिल्वान् अपि च तिन्दुकान् ॥
पुष्पितान् पुष्पिताग्राभिर् लताभिर् अनुवेष्टितान्
ददर्श रामः शतशस् तत्र कान्तारपादपान् ॥
हस्तिहस्तैर् विमृदितान् वानरैर् उपशोभितान्
मत्तैः शकुनिसंघैश् च शतशः प्रतिनादितान् ॥
ततो ऽब्रवीत् समीपस्थं रामो राजीवलोचनः
पृष्ठतो ऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥
स्निग्धपत्त्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः
आश्रमो नातिदूरस्थो महर्षेर् भावितात्मनः ॥
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ॥
प्राज्यधूमाकुलवनश् चीरमालापरिष्कृतः
प्रशान्तमृगयूथश् च नानाशकुनिनादितः ॥
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया
दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा ॥
तस्येदम् आश्रमपदं प्रभावाद् यस्य राक्षसैः
दिग् इयं दक्षिणा त्रासाद् दृश्यते नोपभुज्यते ॥
यदाप्रभृति चाक्रान्ता दिग् इयं पुण्यकर्मणा
तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः ॥
नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥
मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः
संदेशं पालयंस् तस्य विन्ध्यः शैलो न वर्धते ॥
अयं दीर्घायुषस् तस्य लोके विश्रुतकर्मणः
अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः ॥
एष लोकार्चितः साधुर् हिते नित्यं रतः सताम्
अस्मान् अधिगतान् एष श्रेयसा योजयिष्यति ॥
आराधयिष्याम्य् अत्राहम् अगस्त्यं तं महामुनिम्
शेषं च वनवासस्य सौम्य वत्स्याम्य् अहं प्रभो ॥
अत्र देवाः सगन्धर्वाः सिद्धाश् च परमर्षयः
अगस्त्यं नियताहारं सततं पर्युपासते ॥
नात्र जीवेन् मृषावादी क्रूरो वा यदि वा शठः
नृशंसः कामवृत्तो वा मुनिर् एष तथाविधः ॥
अत्र देवाश् च यक्षाश् च नागाश् च पतगैः सह
वसन्ति नियताहारा धर्मम् आराधयिष्णवः ॥
अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः
त्यक्त्वा देहान् नवैर् देहैः स्वर्याताः परमर्षयः ॥
यक्षत्वम् अमरत्वं च राज्यानि विविधानि च
अत्र देवाः प्रयच्छन्ति भूतैर् आराधिताः शुभैः ॥
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः
निवेदयेह मां प्राप्तम् ऋषये सह सीतया ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0