रामायण (संशोधित पाठ) · अध्याय 3.7
रामस् तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः
परिणाम्य निशां तत्र प्रभाते प्रत्यबुध्यत ॥
उत्थाय तु यथाकालं राघवः सह सीतया
उपास्पृशत् सुशीतेन जलेनोत्पलगन्धिना ॥
अथ ते ऽग्निं सुरांश् चैव वैदेही रामलक्ष्मणौ
काल्यं विधिवद् अभ्यर्च्य तपस्विशरणे वने ॥
उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः
सुतीक्ष्णम् अभिगम्येदं श्लक्ष्णं वचनम् अब्रुवन् ॥
सुखोषिताः स्म भगवंस् त्वया पूज्येन पूजिताः
आपृच्छामः प्रयास्यामो मुनयस् त्वरयन्ति नः ॥
त्वरामहे वयं द्रष्टुं कृत्स्नम् आश्रममण्डलम्
ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥
अभ्यनुज्ञातुम् इच्छामः सहैभिर् मुनिपुंगवैः
धर्मनित्यैस् तपोदान्तैर् विशिखैर् इव पावकैः ॥
अविषह्यातपो यावत् सूर्यो नातिविराजते
अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः ॥
तावद् इच्छामहे गन्तुम् इत्य् उक्त्वा चरणौ मुनेः
ववन्दे सहसौमित्रिः सीतया सह राघवः ॥
तौ संस्पृशन्तौ चरणाव् उत्थाप्य मुनिपुंगवः
गाढम् आलिङ्ग्य सस्नेहम् इदं वचनम् अब्रवीत् ॥
अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह
सीतया चानया सार्धं छाययेवानुवृत्तया ॥
पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्
एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥
सुप्राज्यफलमूलानि पुष्पितानि वनानि च
प्रशान्तमृगयूथानि शान्तपक्षिगणानि च ॥
फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि च
कारण्डवविकीर्णानि तटाकानि सरांसि च ॥
द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च
रमणीयान्य् अरण्यानि मयूराभिरुतानि च ॥
गम्यतां वत्स सौमित्रे भवान् अपि च गच्छतु
आगन्तव्यं च ते दृष्ट्वा पुनर् एवाश्रमं मम ॥
एवम् उक्तस् तथेत्य् उक्त्वा काकुत्स्थः सहलक्ष्मणः
प्रदक्षिणं मुनिं कृत्वा प्रस्थातुम् उपचक्रमे ॥
ततः शुभतरे तूणी धनुषी चायतेक्षणा
ददौ सीता तयोर् भ्रात्रोः खड्गौ च विमलौ ततः ॥
आबध्य च शुभे तूणी चापौ चादाय सस्वनौ
निष्क्रान्ताव् आश्रमाद् गन्तुम् उभौ तौ रामलक्ष्मणौ ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0