भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.70

3.70.1

तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने
आतस्थतुर् दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥

3.70.2

तौ शैलेष्व् आचितानेकान् क्षौद्रकल्पफलद्रुमान्
वीक्षन्तौ जग्मतुर् द्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥

3.70.3

कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ
पम्पायाः पश्चिमं तीरं राघवाव् उपतस्थतुः ॥

3.70.4

तौ पुष्करिण्याः पम्पायास् तीरम् आसाद्य पश्चिमम्
अपश्यतां ततस् तत्र शबर्या रम्यम् आश्रमम् ॥

3.70.5

तौ तम् आश्रमम् आसाद्य द्रुमैर् बहुभिर् आवृतम्
सुरम्यम् अभिवीक्षन्तौ शबरीम् अभ्युपेयतुः ॥

3.70.6

तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः
पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः ॥

3.70.7

ताम् उवाच ततो रामः श्रमणीं संशितव्रताम्
कच्चित् ते निर्जिता विघ्नाः कच्चित् ते वर्धते तपः ॥

3.70.8

कच्चित् ते नियतः कोप आहारश् च तपोधने
कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखम्
कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणि ॥

3.70.9

रामेण तापसी पृष्टा सा सिद्धा सिद्धसंमता
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥

3.70.10

चित्रकूटं त्वयि प्राप्ते विमानैर् अतुलप्रभैः
इतस् ते दिवम् आरूढा यान् अहं पर्यचारिषम् ॥

3.70.11

तैश् चाहम् उक्ता धर्मज्ञैर् महाभागैर् महर्षिभिः
आगमिष्यति ते रामः सुपुण्यम् इमम् आश्रमम् ॥

3.70.12

स ते प्रतिग्रहीतव्यः सौमित्रिसहितो ऽतिथिः
तं च दृष्ट्वा वरांल् लोकान् अक्षयांस् त्वं गमिष्यसि ॥

3.70.13

मया तु विविधं वन्यं संचितं पुरुषर्षभ
तवार्थे पुरुषव्याघ्र पम्पायास् तीरसम्भवम् ॥

3.70.14

एवम् उक्तः स धर्मात्मा शबर्या शबरीम् इदम्
राघवः प्राह विजाने तां नित्यम् अबहिष्कृताम् ॥

3.70.15

दनोः सकाशात् तत्त्वेन प्रभावं ते महात्मनः
श्रुतं प्रत्यक्षम् इच्छामि संद्रष्टुं यदि मन्यसे ॥

3.70.16

एतत् तु वचनं श्रुत्वा रामवक्त्राद् विनिःसृतम्
शबरी दर्शयामास ताव् उभौ तद् वनं महत् ॥

3.70.17

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्
मतंगवनम् इत्य् एव विश्रुतं रघुनन्दन ॥

3.70.18

इह ते भावितात्मानो गुरवो मे महाद्युते
जुहवांश्चक्रिरे तीर्थं मन्त्रवन् मन्त्रपूजितम् ॥

3.70.19

इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः
पुष्पोपहारं कुर्वन्ति श्रमाद् उद्वेपिभिः करैः ॥

3.70.20

तेषां तपःप्रभावेन पश्याद्यापि रघूत्तम
द्योतयन्ति दिशः सर्वाः श्रिया वेद्यो ऽतुलप्रभाः ॥

3.70.21

अशक्नुवद्भिस् तैर् गन्तुम् उपवासश्रमालसैः
चिन्तिते ऽभ्यागतान् पश्य समेतान् सप्त सागरान् ॥

3.70.22

कृताभिषेकैस् तैर् न्यस्ता वल्कलाः पादपेष्व् इह
अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन ॥

3.70.23

कृत्स्नं वनम् इदं दृष्टं श्रोतव्यं च श्रुतं त्वया
तद् इच्छाम्य् अभ्यनुज्ञाता त्यक्तुम् एतत् कलेवरम् ॥

3.70.24

तेषाम् इच्छाम्य् अहं गन्तुं समीपं भावितात्मनाम्
मुनीनाम् आश्रमो येषाम् अहं च परिचारिणी ॥

3.70.25

धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः
अनुजानामि गच्छेति प्रहृष्टवदनो ऽब्रवीत् ॥

3.70.26

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने
ज्वलत्पावकसंकाशा स्वर्गम् एव जगाम सा ॥

3.70.27

यत्र ते सुकृतात्मानो विहरन्ति महर्षयः
तत् पुण्यं शबरी स्थानं जगामात्मसमाधिना ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc