भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.71

3.71.1

दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा
लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः ॥

3.71.2

चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्
हितकारिणम् एकाग्रं लक्ष्मणं राघवो ऽब्रवीत् ॥

3.71.3

दृष्टो ऽयम् आश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्
विश्वस्तमृगशार्दूलो नानाविहगसेवितः ॥

3.71.4

सप्तानां च समुद्राणाम् एषु तीर्थेषु लक्ष्मण
उपस्पृष्टं च विधिवत् पितरश् चापि तर्पिताः ॥

3.71.5

प्रनष्टम् अशुभं यत् तत् कल्याणं समुपस्थितम्
तेन त्व् एतत् प्रहृष्टं मे मनो लक्ष्मण सम्प्रति ॥

3.71.6

हृदये हि नरव्याघ्र शुभम् आविर्भविष्यति
तद् आगच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ॥

3.71.7

ऋश्यमूको गिरिर् यत्र नातिदूरे प्रकाशते
यस्मिन् वसति धर्मात्मा सुग्रीवो ऽंशुमतः सुतः
नित्यं वालिभयात् त्रस्तश् चतुर्भिः सह वानरैः ॥

3.71.8

अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्
तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥

3.71.9

इति ब्रुवाणं तं रामं सौमित्रिर् इदम् अब्रवीत्
गच्छावस् त्वरितं तत्र ममापि त्वरते मनः ॥

3.71.10

आश्रमात् तु ततस् तस्मान् निष्क्रम्य स विशां पतिः
आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः ॥

3.71.11

समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्
कोयष्टिभिश् चार्जुनकैः शतपत्त्रैश् च कीचकैः
एतैश् चान्यैश् च विविधैर् नादितं तद् वनं महत् ॥

3.71.12

स रामो विविधान् वृक्षान् सरांसि विविधानि च
पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम् ॥

3.71.13

स ताम् आसाद्य वै रामो दूराद् उदकवाहिनीम्
मतंगसरसं नाम ह्रदं समवगाहत ॥

3.71.14

स तु शोकसमाविष्टो रामो दशरथात्मजः
विवेश नलिनीं पम्पां पङ्कजैश् च समावृताम् ॥

3.71.15

तिलकाशोकपुंनाग बकुलोद्दालकाशिनीम्
रम्योपवनसम्बाधां पद्मसंपीडितोदकाम् ॥

3.71.16

स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम्
मत्स्यकच्छपसम्बाधां तीरस्थद्रुमशोभिताम् ॥

3.71.17

सखीभिर् इव युक्ताभिर् लताभिर् अनुवेष्टिताम्
किंनरोरगगन्धर्व यक्षराक्षससेविताम्
नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम् ॥

3.71.18

पद्मैः सौगन्धिकैस् ताम्रां शुक्लां कुमुदमण्डलैः
नीलां कुवलयोद्धातैर् बहुवर्णां कुथाम् इव ॥

3.71.19

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्
पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम् ॥

3.71.20

स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह
विललाप च तेजस्वी कामाद् दशरथात्मजः ॥

3.71.21

तिलकैर् बीजपूरैश् च वटैः शुक्लद्रुमैस् तथा
पुष्पितैः करवीरैश् च पुंनागैश् च सुपुष्पितैः ॥

3.71.22

मालतीकुन्दगुल्मैश् च भण्डीरैर् निचुलैस् तथा
अशोकैः सप्तपर्णैश् च केतकैर् अतिमुक्तकैः
अन्यैश् च विविधैर् वृक्षैः प्रमदेवोपशोभिताम् ॥

3.71.23

अस्यास् तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः
ऋश्यमूक इति ख्यातश् चित्रपुष्पितकाननः ॥

3.71.24

हरिर् ऋक्षरजोनाम्नः पुत्रस् तस्य महात्मनः
अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः ॥

3.71.25

सुग्रीवम् अभिगच्छ त्वं वानरेन्द्रं नरर्षभ
इत्य् उवाच पुनर् वाक्यं लक्ष्मणं सत्यविक्रमम् ॥

3.71.26

ततो महद् वर्त्म च दूरसंक्रमं क्रमेण गत्वा प्रविलोकयन् वनम्
ददर्श पम्पां शुभदर्शकाननाम् अनेकनानाविधपक्षिसंकुलाम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc