भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.69

3.69.1

निदर्शयित्वा रामाय सीतायाः प्रतिपादने
वाक्यम् अन्वर्थम् अर्थज्ञः कबन्धः पुनर् अब्रवीत् ॥

3.69.2

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः
प्रतीचीं दिशम् आश्रित्य प्रकाशन्ते मनोरमाः ॥

3.69.3

जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः
अश्वत्थाः कर्णिकाराश् च चूताश् चान्ये च पादपाः ॥

3.69.4

तान् आरुह्याथवा भूमौ पातयित्वा च तान् बलात्
फलान्य् अमृतकल्पानि भक्षयन्तौ गमिष्यथः ॥

3.69.5

चङ्क्रमन्तौ वरान् देशाञ् शैलाच् छैलं वनाद् वनम्
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ॥

3.69.6

अशर्कराम् अविभ्रंशां समतीर्थम् अशैवलाम्
राम संजातवालूकां कमलोत्पलशोभिताम् ॥

3.69.7

तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश् चैव राघव
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः ॥

3.69.8

नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः
घृतपिण्डोपमान् स्थूलांस् तान् द्विजान् भक्षयिष्यथः ॥

3.69.9

रोहितान् वक्रतुण्डांश् च नलमीनांश् च राघव
पम्पायाम् इषुभिर् मत्स्यांस् तत्र राम वरान् हतान् ॥

3.69.10

निस्त्वक्पक्षान् अयस्तप्तान् अकृशान् एककण्टकान्
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति ॥

3.69.11

भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये
पद्मगन्धि शिवं वारि सुखशीतम् अनामयम् ॥

3.69.12

उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ॥

3.69.13

स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः
अपां लोभाद् उपावृत्तान् वृषभान् इव नर्दतः
रूपान्वितांश् च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ॥

3.69.14

सायाह्ने विचरन् राम विटपीन्माल्यधारिणः
शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि ॥

3.69.15

सुमनोभिश् चितांस् तत्र तिलकान् नक्तमालकान्
उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥

3.69.16

न तानि कश्चिन् माल्यानि तत्रारोपयिता नरः
मतंगशिष्यास् तत्रासन्न् ऋषयः सुसमाहितः ॥

3.69.17

तेषां भाराभितप्तानां वन्यम् आहरतां गुरोः
ये प्रपेतुर् महीं तूर्णं शरीरात् स्वेदबिन्दवः ॥

3.69.18

तानि माल्यानि जातानि मुनीनां तपसा तदा
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥

3.69.19

तेषाम् अद्यापि तत्रैव दृश्यते परिचारिणी
श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥

3.69.20

त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥

3.69.21

ततस् तद् राम पम्पायास् तीरम् आश्रित्य पश्चिमम्
आश्रमस्थानम् अतुलं गुह्यं काकुत्स्थ पश्यसि ॥

3.69.22

न तत्राक्रमितुं नागाः शक्नुवन्ति तम् आश्रमम्
ऋषेस् तस्य मतंगस्य विधानात् तच् च काननम् ॥

3.69.23

तस्मिन् नन्दनसंकाशे देवारण्योपमे वने
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः ॥

3.69.24

ऋष्यमूकस् तु पम्पायाः पुरस्तात् पुष्पितद्रुमः
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः
उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ॥

3.69.25

शयानः पुरुषो राम तस्य शैलस्य मूर्धनि
यत् स्वप्ने लभते वित्तं तत् प्रबुद्धो ऽधिगच्छति ॥

3.69.26

न त्व् एनं विषमाचारः पापकर्माधिरोहति
तत्रैव प्रहरन्त्य् एनं सुप्तम् आदाय राक्षसाः ॥

3.69.27

ततो ऽपि शिशुनागानाम् आक्रन्दः श्रूयते महान्
क्रीडतां राम पम्पायां मतंगारण्यवासिनाम् ॥

3.69.28

सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः
प्रचरन्ति पृथक् कीर्णा मेघवर्णास् तरस्विनः ॥

3.69.29

ते तत्र पीत्वा पानीयं विमलं शीतम् अव्ययम्
निवृत्ताः संविगाहन्ते वनानि वनगोचराः ॥

3.69.30

राम तस्य तु शैलस्य महती शोभते गुहा
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ॥

3.69.31

तस्या गुहायाः प्राग्द्वारे महाञ् शीतोदको ह्रदः
बहुमूलफलो रम्यो नानानगसमावृतः ॥

3.69.32

तस्यां वसति सुग्रीवश् चतुर्भिः सह वानरैः
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥

3.69.33

कबन्धस् त्व् अनुशास्यैवं ताव् उभौ रामलक्ष्मणौ
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥

3.69.34

तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ
प्रस्थितौ त्वं व्रजस्वेति वाक्यम् ऊचतुर् अन्तिकात् ॥

3.69.35

गम्यतां कार्यसिद्ध्यर्थम् इति ताव् अब्रवीच् च सः
सुप्रीतौ ताव् अनुज्ञाप्य कबन्धः प्रस्थितस् तदा ॥

3.69.36

स तत् कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः
निदर्शयन् रामम् अवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc