रामायण (संशोधित पाठ) · अध्याय 3.6
रामस् तु सहितो भ्रात्रा सीतया च परंतपः
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर् द्विजैः ॥
स गत्वा दूरम् अध्वानं नदीस् तीर्त्वा बहूदकाः
ददर्श विपुलं शैलं महामेघम् इवोन्नतम् ॥
ततस् तद् इक्ष्वाकुवरौ सततं विविधैर् द्रुमैः
काननं तौ विविशतुः सीतया सह राघवौ ॥
प्रविष्टस् तु वनं घोरं बहुपुष्पफलद्रुमम्
ददर्शाश्रमम् एकान्ते चीरमालापरिष्कृतम् ॥
तत्र तापसम् आसीनं मलपङ्कजटाधरम्
रामः सुतीक्ष्णं विधिवत् तपोवृद्धम् अभाषत ॥
रामो ऽहम् अस्मि भगवन् भवन्तं द्रष्टुम् आगतः
तन् माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥
स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्
समाश्लिष्य च बाहुभ्याम् इदं वचनम् अब्रवीत् ॥
स्वागतं खलु ते वीर राम धर्मभृतां वर
आश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥
प्रतीक्षमाणस् त्वाम् एव नारोहे ऽहं महायशः
देवलोकम् इतो वीर देहं त्यक्त्वा महीतले ॥
चित्रकूटम् उपादाय राज्यभ्रष्टो ऽसि मे श्रुतः
इहोपयातः काकुत्स्थो देवराजः शतक्रतुः
सर्वांल् लोकाञ् जितान् आह मम पुण्येन कर्मणा ॥
तेषु देवर्षिजुष्टेषु जितेषु तपसा मया
मत्प्रसादात् सभार्यस् त्वं विहरस्व सलक्ष्मणः ॥
तम् उग्रतपसं दीप्तं महर्षिं सत्यवादिनम्
प्रत्युवाचात्मवान् रामो ब्रह्माणम् इव वासवः ॥
अहम् एवाहरिष्यामि स्वयं लोकान् महामुने
आवासं त्व् अहम् इच्छामि प्रदिष्टम् इह कानने ॥
भवान् सर्वत्र कुशलः सर्वभूतहिते रतः
आख्यातः शरभङ्गेन गौतमेन महात्मना ॥
एवम् उक्तस् तु रामेण महर्षिर् लोकविश्रुतः
अब्रवीन् मधुरं वाक्यं हर्षेण महताप्लुतः ॥
अयम् एवाश्रमो राम गुणवान् रम्यताम् इह
ऋषिसंघानुचरितः सदा मूलफलैर् युतः ॥
इमम् आश्रमम् आगम्य मृगसंघा महायशः
अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ॥
तच् छ्रुत्वा वचनं तस्य महर्षेर् लक्ष्मणाग्रजः
उवाच वचनं धीरो विकृष्य सशरं धनुः ॥
तान् अहं सुमहाभाग मृगसंघान् समागतान्
हन्यां निशितधारेण शरेणाशनिवर्चसा ॥
भवांस् तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः
एतस्मिन्न् आश्रमे वासं चिरं तु न समर्थये ॥
तम् एवम् उक्त्वा वरदं रामः संध्याम् उपागमत्
अन्वास्य पश्चिमां संध्यां तत्र वासम् अकल्पयत् ॥
ततः शुभं तापसभोज्यम् अन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्
ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं समीक्ष्य ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0