रामायण (संशोधित पाठ) · अध्याय 3.68
एवम् उक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ
गिरिप्रदरम् आसाद्य पावकं विससर्जतुः ॥
लक्ष्मणस् तु महोल्काभिर् ज्वलिताभिः समन्ततः
चिताम् आदीपयामास सा प्रजज्वाल सर्वतः ॥
तच् छरीरं कबन्धस्य घृतपिण्डोपमं महत्
मेदसा पच्यमानस्य मन्दं दहति पावकः ॥
स विधूय चिताम् आशु विधूमो ऽग्निर् इवोत्थितः
अरजे वाससी बिभ्रन् मालां दिव्यां महाबलः ॥
ततश् चिताया वेगेन भास्वरो विरजाम्बरः
उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ॥
विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे
प्रभया च महातेजा दिशो दश विराजयन् ॥
सो ऽन्तरिक्षगतो रामं कबन्धो वाक्यम् अब्रवीत्
शृणु राघव तत्त्वेन यथा सीमाम् अवाप्स्यसि ॥
राम षड् युक्तयो लोके याभिः सर्वं विमृश्यते
परिमृष्टो दशान्तेन दशाभागेन सेव्यते ॥
दशाभागगतो हीनस् त्वं राम सहलक्ष्मणः
यत् कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम् ॥
तद् अवश्यं त्वया कार्यः स सुहृत् सुहृदां वर
अकृत्वा न हि ते सिद्धिम् अहं पश्यामि चिन्तयन् ॥
श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः
भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना ॥
ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते
निवसत्य् आत्मवान् वीरश् चतुर्भिः सह वानरैः ॥
वयस्यं तं कुरु क्षिप्रम् इतो गत्वाद्य राघव
अद्रोहाय समागम्य दीप्यमाने विभावसौ ॥
न च ते सो ऽवमन्तव्यः सुग्रीवो वानराधिपः
कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ॥
शक्तौ ह्य् अद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्
कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति ॥
स ऋक्षरजसः पुत्रः पम्पाम् अटति शङ्कितः
भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ॥
संनिधायायुधं क्षिप्रम् ऋष्यमूकालयं कपिम्
कुरु राघव सत्येन वयस्यं वनचारिणम् ॥
स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः
नरमांसाशिनां लोके नैपुण्याद् अधिगच्छति ॥
न तस्याविदितं लोके किंचिद् अस्ति हि राघव
यावत् सूर्यः प्रतपति सहस्रांशुर् अरिंदम ॥
स नदीर् विपुलाञ् शैलान् गिरिदुर्गाणि कन्दरान्
अन्विष्य वानरैः सार्धं पत्नीं ते ऽधिगमिष्यति ॥
वानरांश् च महाकायान् प्रेषयिष्यति राघव
दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ॥
स मेरुशृङ्गाग्रगताम् अनिन्दितां प्रविश्य पातालतले ऽपि वाश्रिताम्
प्लवंगमानां प्रवरस् तव प्रियां निहत्य रक्षांसि पुनः प्रदास्यति ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0