रामायण (संशोधित पाठ) · अध्याय 3.67
पुरा राम महाबाहो महाबलपराक्रम
रूपम् आसीन् ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्
यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः ॥
सो ऽहं रूपम् इदं कृत्वा लोकवित्रासनं महत्
ऋषीन् वनगतान् राम त्रासयामि ततस् ततः ॥
ततः स्थूलशिरा नाम महर्षिः कोपितो मया
संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः ॥
तेनाहम् उक्तः प्रेक्ष्यैवं घोरशापाभिधायिना
एतद् एव नृशंसं ते रूपम् अस्तु विगर्हितम् ॥
स मया याचितः क्रुद्धः शापस्यान्तो भवेद् इति
अभिशापकृतस्येति तेनेदं भाषितं वचः ॥
यदा छित्त्वा भुजौ रामस् त्वां दहेद् विजने वने
तदा त्वं प्राप्स्यसे रूपं स्वम् एव विपुलं शुभम् ॥
श्रिया विराजितं पुत्रं दनोस् त्वं विद्धि लक्ष्मण
इन्द्रकोपाद् इदं रूपं प्राप्तम् एवं रणाजिरे ॥
अहं हि तपसोग्रेण पितामहम् अतोषयम्
दीर्घम् आयुः स मे प्रादात् ततो मां विभ्रमो ऽस्पृशत् ॥
दीर्घम् आयुर् मया प्राप्तं किं मे शक्रः करिष्यति
इत्य् एवं बुद्धिम् आस्थाय रणे शक्रम् अधर्षयम् ॥
तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा
सक्थिनी च शिरश् चैव शरीरे संप्रवेशितम् ॥
स मया याच्यमानः सन्न् आनयद् यमसादनम्
पितामहवचः सत्यं तद् अस्त्व् इति ममाब्रवीत् ॥
अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः
वज्रेणाभिहतः कालं सुदीर्घम् अपि जीवितुम् ॥
एवम् उक्तस् तु मे शक्रो बाहू योजनम् आयतौ
प्रादाद् आस्यं च मे कुक्षौ तीक्ष्णदंष्ट्रम् अकल्पयत् ॥
सो ऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान्
सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः ॥
स तु माम् अब्रवीद् इन्द्रो यदा रामः सलक्ष्मणः
छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि ॥
स त्वं रामो ऽसि भद्रं ते नाहम् अन्येन राघव
शक्यो हन्तुं यथातत्त्वम् एवम् उक्तं महर्षिणा ॥
अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ
मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतो ऽग्निना ॥
एवम् उक्तस् तु धर्मात्मा दनुना तेन राघवः
इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः ॥
रावणेन हृता सीता मम भार्या यशस्विनी
निष्क्रान्तस्य जनस्थानात् सह भ्रात्रा यथासुखम् ॥
नाममात्रं तु जानामि न रूपं तस्य रक्षसः
निवासं वा प्रभावं वा वयं तस्य न विद्महे ॥
शोकार्तानाम् अनाथानाम् एवं विपरिधावताम्
कारुण्यं सदृशं कर्तुम् उपकारे च वर्तताम् ॥
काष्ठान्य् आनीय शुष्काणि काले भग्नानि कुञ्जरैः
भक्ष्यामस् त्वां वयं वीर श्वभ्रे महति कल्पिते ॥
स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता
कुरु कल्याणम् अत्यर्थं यदि जानासि तत्त्वतः ॥
एवम् उक्तस् तु रामेण वाक्यं दनुर् अनुत्तमम्
प्रोवाच कुशलो वक्तुं वक्तारम् अपि राघवम् ॥
दिव्यम् अस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्
यस् तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपम् आस्थितः ॥
अदग्धस्य हि विज्ञातुं शक्तिर् अस्ति न मे प्रभो
राक्षसं तं महावीर्यं सीता येन हृता तव ॥
विज्ञानं हि महद् भ्रष्टं शापदोषेण राघव
स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम् ॥
किं तु यावन् न यात्य् अस्तं सविता श्रान्तवाहनः
तावन् माम् अवटे क्षिप्त्वा दह राम यथाविधि ॥
दग्धस् त्वयाहम् अवटे न्यायेन रघुनन्दन
वक्ष्यामि तम् अहं वीर यस् तं ज्ञास्यति राक्षसम् ॥
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव
कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥
न हि तस्यास्त्य् अविज्ञातं त्रिषु लोकेषु राघव
सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0