रामायण (संशोधित पाठ) · अध्याय 3.66
तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यम् अब्रवीत् ॥
तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ
आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ ॥
तच् छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा
उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः ॥
त्वां च मां च पुरा तूर्णम् आदत्ते राक्षसाधमः
तस्माद् असिभ्याम् अस्याशु बाहू छिन्दावहै गुरू ॥
ततस् तौ देशकालज्ञौ खड्गाभ्याम् एव राघवौ
अछिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः ॥
दक्षिणो दक्षिणं बाहुम् असक्तम् असिना ततः
चिछेद रामो वेगेन सव्यं वीरस् तु लक्ष्मणः ॥
स पपात महाबाहुश् छिन्नबाहुर् महास्वनः
खं च गां च दिशश् चैव नादयञ् जलदो यथा ॥
स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः
दीनः पप्रच्छ तौ वीरौ कौ युवाम् इति दानवः ॥
इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः
शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः ॥
अयम् इक्ष्वाकुदायादो रामो नाम जनैः श्रुतः
अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम् ॥
अस्य देवप्रभावस्य वसतो विजने वने
रक्षसापहृता भार्या याम् इच्छन्ताव् इहागतौ ॥
त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने
आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे ॥
एवम् उक्तः कबन्धस् तु लक्ष्मणेनोत्तरं वचः
उवाच परमप्रीतस् तद् इन्द्रवचनं स्मरन् ॥
स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्य् अहम्
दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ ॥
विरूपं यच् च मे रूपं प्राप्तं ह्य् अविनयाद् यथा
तन् मे शृणु नरव्याघ्र तत्त्वतः शंसतस् तव ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0