रामायण (संशोधित पाठ) · अध्याय 3.65
कृत्वैवम् उदकं तस्मै प्रस्थितौ राघवौ तदा
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर् दिशम् ॥
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ
अविप्रहतम् ऐक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥
गुल्मैर् वृक्षैश् च बहुभिर् लताभिश् च प्रवेष्टितम्
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्
सुभीमं तन् महारण्यं व्यतियातौ महाबलौ ॥
ततः परं जनस्थानात् त्रिक्रोशं गम्य राघवौ
क्रौञ्चारण्यं विविशतुर् गहनं तौ महौजसौ ॥
नानामेघघनप्रख्यं प्रहृष्टम् इव सर्वतः
नानावर्णैः शुभैः पुष्पैर् मृगपक्षिगणैर् युतम् ॥
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥
लक्ष्मणस् तु महातेजाः सत्त्ववाञ् शीलवाञ् शुचिः
अब्रवीत् प्राञ्जलिर् वाक्यं भ्रातरं दीप्ततेजसम् ॥
स्पन्दते मे दृढं बाहुर् उद्विग्नम् इव मे मनः
प्रायशश् चाप्य् अनिष्टानि निमित्तान्य् उपलक्षये ॥
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं हितम्
ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ॥
एष वञ्चुलको नाम पक्षी परमदारुणः
आवयोर् विजयं युद्धे शंसन्न् इव विनर्दति ॥
तयोर् अन्वेषतोर् एवं सर्वं तद् वनम् ओजसा
संजज्ञे विपुलः शब्दः प्रभञ्जन्न् इव तद् वनम् ॥
संवेष्टितम् इवात्यर्थं गहनं मातरिश्वना
वनस्य तस्य शब्दो ऽभूद् दिवम् आपूरयन्न् इव ॥
तं शब्दं काङ्क्षमाणस् तु रामः कक्षे सहानुजः
ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥
आसेदतुस् ततस् तत्र ताव् उभौ प्रमुखे स्थितम्
विवृद्धम् अशिरोग्रीवं कबन्धम् उदरे मुखम् ॥
रोमभिर् निचितैस् तीक्ष्णैर् महागिरिम् इवोच्छ्रितम्
नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥
महापक्ष्मेण पिङ्गेन विपुलेनायतेन च
एकेनोरसि घोरेण नयनेनाशुदर्शिना ॥
महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्
भक्षयन्तं महाघोरान् ऋक्षसिंहमृगद्विपान् ॥
घोरौ भुजौ विकुर्वाणम् उभौ योजनम् आयतौ
कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् ॥
आकर्षन्तं विकर्षन्तम् अनेकान् मृगयूथपान्
स्थितम् आवृत्य पन्थानं तयोर् भ्रात्रोः प्रपन्नयोः ॥
अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ॥
स महाबाहुर् अत्यर्थं प्रसार्य विपुलौ भुजौ
जग्राह सहिताव् एव राघवौ पीडयन् बलात् ॥
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥
ताव् उवाच महाबाहुः कबन्धो दानवोत्तमः
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥
घोरं देशम् इमं प्राप्तौ मम भक्षाव् उपस्थितौ
वदतं कार्यम् इह वां किमर्थं चागतौ युवाम् ॥
इमं देशम् अनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः
सबाणचापखड्गौ च तीक्ष्णशृङ्गाव् इवर्षभौ
ममास्यम् अनुसंप्राप्तौ दुर्लभं जीवितं पुनः ॥
तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम
व्यसनं जीवितान्ताय प्राप्तम् अप्राप्य तां प्रियाम् ॥
कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ
नातिभारो ऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण ॥
शूराश् च बलवन्तश् च कृतास्त्राश् च रणाजिरे
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान्
अवेक्ष्य सौमित्रिम् उदग्रविक्रमं स्थिरां तदा स्वां मतिम् आत्मनाकरोत् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0