रामायण (संशोधित पाठ) · अध्याय 3.64
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्
सौमित्रिं मित्रसम्पन्नम् इदं वचनम् अब्रवीत् ॥
ममायं नूनम् अर्थेषु यतमानो विहंगमः
राक्षसेन हतः संख्ये प्राणांस् त्यजति दुस्त्यजान् ॥
अयम् अस्य शरीरे ऽस्मिन् प्राणो लक्ष्मण विद्यते
तथा स्वरविहीनो ऽयं विक्लवं समुदीक्षते ॥
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः
सीताम् आख्याहि भद्रं ते वधम् आख्याहि चात्मनः ॥
किंनिमित्तो ऽहरत् सीतां रावणस् तस्य किं मया
अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥
कथं तच् चन्द्रसंकाशं मुखम् आसीन् मनोहरम्
सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः
क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥
तम् उद्वीक्ष्याथ दीनात्मा विलपन्तम् अनन्तरम्
वाचातिसन्नया रामं जटायुर् इदम् अब्रवीत् ॥
सा हृता राक्षसेन्द्रेण रावणेन विहायसा
मायाम् आस्थाय विपुलां वातदुर्दिनसंकुलाम् ॥
परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः
सीताम् आदाय वैदेहीं प्रयातो दक्षिणामुखः ॥
उपरुध्यन्ति मे प्राणा दृष्टिर् भ्रमति राघव
पश्यामि वृक्षान् सौवर्णान् उशीरकृतमूर्धजान् ॥
येन याति मुहूर्तेन सीताम् आदाय रावणः
विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥
विन्दो नाम मुहूर्तो ऽसौ स च काकुत्स्थ नाबुधत्
झषवद् बडिशं गृह्य क्षिप्रम् एव विनश्यति ॥
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति
वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे ॥
असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः
आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च
इत्य् उक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः
त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा
विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुम् अचलोपमम्
रामः सुबहुभिर् दुःखैर् दीनः सौमित्रिम् अब्रवीत् ॥
बहूनि रक्षसां वासे वर्षाणि वसता सुखम्
अनेन दण्डकारण्ये विचीर्णम् इह पक्षिणा ॥
अनेकवार्षिको यस् तु चिरकालं समुत्थितः
सो ऽयम् अद्य हतः शेते कालो हि दुरतिक्रमः ॥
पश्य लक्ष्मण गृध्रो ऽयम् उपकारी हतश् च मे
सीताम् अभ्यवपन् नो वै रावणेन बलीयसा ॥
गृध्रराज्यं परित्यज्य पितृपैतामहं महत्
मम हेतोर् अयं प्राणान् मुमोच पतगेश्वरः ॥
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः
शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्व् अपि ॥
सीताहरणजं दुःखं न मे सौम्य तथागतम्
यथा विनाशो गृध्रस्य मत्कृते च परंतप ॥
राजा दशरथः श्रीमान् यथा मम महायशाः
पूजनीयश् च मान्यश् च तथायं पतगेश्वरः ॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्
गृध्रराजं दिधक्षामि मत्कृते निधनं गतम् ॥
नाथं पतगलोकस्य चिताम् आरोपयाम्य् अहम्
इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥
या गतिर् यज्ञशीलानाम् आहिताग्नेश् च या गतिः
अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥
मया त्वं समनुज्ञातो गच्छ लोकान् अनुत्तमान्
गृध्रराज महासत्त्व संस्कृतश् च मया व्रज ॥
एवम् उक्त्वा चितां दीप्ताम् आरोप्य पतगेश्वरम्
ददाह रामो धर्मात्मा स्वबन्धुम् इव दुःखितः ॥
रामो ऽथ सहसौमित्रिर् वनं यात्वा स वीर्यवान्
स्थूलान् हत्वा महारोहीन् अनु तस्तार तं द्विजम् ॥
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः
शकुनाय ददौ रामो रम्ये हरितशाद्वले ॥
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः
तत् स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह ॥
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ
उदकं चक्रतुस् तस्मै गृध्रराजाय ताव् उभौ ॥
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः
महर्षिकल्पेन च संस्कृतस् तदा जगाम पुण्यां गतिम् आत्मनः शुभाम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0