रामायण (संशोधित पाठ) · अध्याय 3.63
पूर्वजो ऽप्य् उक्तमात्रस् तु लक्ष्मणेन सुभाषितम्
सारग्राही महासारं प्रतिजग्राह राघवः ॥
संनिगृह्य महाबाहुः प्रवृद्धं कोपम् आत्मनः
अवष्टभ्य धनुश् चित्रं रामो लक्ष्मणम् अब्रवीत् ॥
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण
केनोपायेन पश्येयं सीताम् इति विचिन्तय ॥
तं तथा परितापार्तं लक्ष्मणो रामम् अब्रवीत्
इदम् एव जनस्थानं त्वम् अन्वेषितुम् अर्हसि ॥
राक्षसैर् बहुभिः कीर्णं नानाद्रुमलतायुतम्
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥
गुहाश् च विविधा घोरा नानामृगगणाकुलाः
आवासाः किंनराणां च गन्धर्वभवनानि च ॥
तानि युक्तो मया सार्धं त्वम् अन्वेषितुम् अर्हसि
त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ ॥
आपत्सु न प्रकम्पन्ते वायुवेगैर् इवाचलाः
इत्य् उक्तस् तद् वनं सर्वं विचचार सलक्ष्मणः ॥
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणम् अब्रवीत्
अनेन सीता वैदेही भक्षिता नात्र संशयः ॥
गृध्ररूपम् इदं व्यक्तं रक्षो भ्रमति काननम्
भक्षयित्वा विशालाक्षीम् आस्ते सीतां यथासुखम्
एनं वधिष्ये दीप्ताग्रैर् घोरैर् बाणैर् अजिह्मगैः ॥
इत्य् उक्त्वाभ्यपतद् गृध्रं संधाय धनुषि क्षुरम्
क्रुद्धो रामः समुद्रान्तां चालयन्न् इव मेदिनीम् ॥
तं दीनदीनया वाचा सफेनं रुधिरं वमन्
अभ्यभाषत पक्षी तु रामं दशरथात्मजम् ॥
याम् ओषधिम् इवायुष्मन्न् अन्वेषसि महावने
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥
त्वया विरहिता देवी लक्ष्मणेन च राघव
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥
सीताम् अभ्यवपन्नो ऽहं रावणश् च रणे मया
विध्वंसितरथच्छत्त्रः पातितो धरणीतले ॥
एतद् अस्य धनुर् भग्नम् एतद् अस्य शरावरम्
अयम् अस्य रणे राम भग्नः सांग्रामिको रथः ॥
परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः
सीताम् आदाय वैदेहीम् उत्पपात विहायसम्
रक्षसा निहतं पूर्वं न मां हन्तुं त्वम् अर्हसि ॥
रामस् तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्
गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः ॥
एकम् एकायने दुर्गे निःश्वसन्तं कथंचन
समीक्ष्य दुःखितो रामः सौमित्रिम् इदम् अब्रवीत् ॥
राज्याद् भ्रंशो वने वासः सीता नष्टा हतो द्विजः
ईदृशीयं ममालक्ष्मीर् निर्दहेद् अपि पावकम् ॥
सम्पूर्णम् अपि चेद् अद्य प्रतरेयं महोदधिम्
सो ऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः ॥
नास्त्य् अभाग्यतरो लोके मत्तो ऽस्मिन् सचराचरे
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥
अयं पितृवयस्यो मे गृध्रराजो जरान्वितः
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥
इत्य् एवम् उक्त्वा बहुशो राघवः सहलक्ष्मणः
जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् ॥
निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिरभ्य रामः
क्व मैथिलि प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0