भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.62

3.62.1

तं तथा शोकसंतप्तं विलपन्तम् अनाथवत्
मोहेन महताविष्टं परिद्यूनम् अचेतनम् ॥

3.62.2

ततः सौमित्रिर् आश्वास्य मुहूर्ताद् इव लक्ष्मणः
रामं संबोधयामास चरणौ चाभिपीडयन् ॥

3.62.3

महता तपसा राम महता चापि कर्मणा
राज्ञा दशरथेनासील् लब्धो ऽमृतम् इवामरैः ॥

3.62.4

तव चैव गुणैर् बद्धस् त्वद्वियोगान् महीपतिः
राजा देवत्वम् आपन्नो भरतस्य यथा श्रुतम् ॥

3.62.5

यदि दुःखम् इदं प्राप्तं काकुत्स्थ न सहिष्यसे
प्राकृतश् चाल्पसत्त्वश् च इतरः कः सहिष्यति ॥

3.62.6

दुःखितो हि भवांल् लोकांस् तेजसा यदि धक्ष्यते
आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम् ॥

3.62.7

लोकस्वभाव एवैष ययातिर् नहुषात्मजः
गतः शक्रेण सालोक्यम् अनयस् तं समस्पृशत् ॥

3.62.8

महर्षयो वसिष्ठस् तु यः पितुर् नः पुरोहितः
अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर् हतम् ॥

3.62.9

या चेयं जगतो माता देवी लोकनमस्कृता
अस्याश् च चलनं भूमेर् दृश्यते सत्यसंश्रव ॥

3.62.10

यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम्
आदित्यचन्द्रौ ग्रहणम् अभ्युपेतौ महाबलौ ॥

3.62.11

सुमहान्त्य् अपि भूतानि देवाश् च पुरुषर्षभ
न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ॥

3.62.12

शक्रादिष्व् अपि देवेषु वर्तमानौ नयानयौ
श्रूयेते नरशार्दूल न त्वं व्यथितुम् अर्हसि ॥

3.62.13

नष्टायाम् अपि वैदेह्यां हृतायाम् अपि चानघ
शोचितुं नार्हसे वीर यथान्यः प्राकृतस् तथा ॥

3.62.14

त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः
सुमहत्स्व् अपि कृच्छ्रेषु रामानिर्विण्णदर्शनाः ॥

3.62.15

तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय
बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे ॥

3.62.16

अदृष्टगुणदोषाणाम् अधृतानां च कर्मणाम्
नान्तरेण क्रियां तेषां फलम् इष्टं प्रवर्तते ॥

3.62.17

माम् एव हि पुरा वीर त्वम् एव बहुशो ऽन्वशाः
अनुशिष्याद्धि को नु त्वाम् अपि साक्षाद् बृहस्पतिः ॥

3.62.18

बुद्धिश् च ते महाप्राज्ञ देवैर् अपि दुरन्वया
शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्य् अहम् ॥

3.62.19

दिव्यं च मानुषं चैवम् आत्मनश् च पराक्रमम्
इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥

3.62.20

किं ते सर्वविनाशेन कृतेन पुरुषर्षभ
तम् एव तु रिपुं पापं विज्ञायोद्धर्तुम् अर्हसि ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc