रामायण (संशोधित पाठ) · अध्याय 3.61
तप्यमानं तथा रामं सीताहरणकर्शितम्
लोकानाम् अभवे युक्तं संवर्तकम् इवानलम् ॥
वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर् मुहुः
हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा ॥
अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः
अब्रवीत् प्राञ्जलिर् वाक्यं मुखेन परिशुष्यता ॥
पुरा भूत्वा मृदुर् दान्तः सर्वभूतहिते रतः
न क्रोधवशम् आपन्नः प्रकृतिं हातुम् अर्हसि ॥
चन्द्रे लक्ष्मीः प्रभा सूर्ये गतिर् वायौ भुवि क्षमा
एतच् च नियतं सर्वं त्वयि चानुत्तमं यशः ॥
न तु जानामि कस्यायं भग्नः सांग्रामिको रथः
केन वा कस्य वा हेतोः सायुधः सपरिच्छदः ॥
खुरनेमिक्षतश् चायं सिक्तो रुधिरबिन्दुभिः
देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज ॥
एकस्य तु विमर्दो ऽयं न द्वयोर् वदतां वर
न हि वृत्तं हि पश्यामि बलस्य महतः पदम् ॥
नैकस्य तु कृते लोकान् विनाशयितुम् अर्हसि
युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः ॥
सदा त्वं सर्वभूतानां शरण्यः परमा गतिः
को नु दारप्रणाशं ते साधु मन्येत राघव ॥
सरितः सागराः शैला देवगन्धर्वदानवाः
नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः ॥
येन राजन् हृता सीता तम् अन्वेषितुम् अर्हसि
मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः ॥
समुद्रं च विचेष्यामः पर्वतांश् च वनानि च
गुहाश् च विविधा घोरा नलिनीः पार्वतीश् च ह ॥
देवगन्धर्वलोकांश् च विचेष्यामः समाहिताः
यावन् नाधिगमिष्यामस् तव भार्यापहारिणम् ॥
न चेत् साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः
कोसलेन्द्र ततः पश्चात् प्राप्तकालं करिष्यसि ॥
शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन् नरेन्द्र
ततः समुत्सादय हेमपुङ्खैर् महेन्द्रवज्रप्रतिमैः शरौघैः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0