रामायण (संशोधित पाठ) · अध्याय 3.60
स दीनो दीनया वाचा लक्ष्मणं वाक्यम् अब्रवीत्
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
अपि गोदावरीं सीता पद्मान्य् आनयितुं गता ॥
एवम् उक्तस् तु रामेण लक्ष्मणः पुनर् एव हि
नदीं गोदावरीं रम्यां जगाम लघुविक्रमः ॥
तां लक्ष्मणस् तीर्थवतीं विचित्वा रामम् अब्रवीत्
नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ॥
कं नु सा देशम् आपन्ना वैदेही क्लेशनाशिनी
न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा ॥
लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः
रामः समभिचक्राम स्वयं गोदावरीं नदीम् ॥
स ताम् उपस्थितो रामः क्व सीतेत्य् एवम् अब्रवीत् ॥
भूतानि राक्षसेन्द्रेण वधार्हेण हृताम् अपि
न तां शशंसू रामाय तथा गोदावरी नदी ॥
ततः प्रचोदिता भूतैः शंसास्मै तां प्रियाम् इति
न च साभ्यवदत् सीतां पृष्टा रामेण शोचिता ॥
रावणस्य च तद् रूपं कर्माणि च दुरात्मनः
ध्यात्वा भयात् तु वैदेहीं सा नदी न शशंस ताम् ॥
निराशस् तु तया नद्या सीताया दर्शने कृतः
उवाच रामः सौमित्रिं सीतादर्शनकर्शितः ॥
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
मातरं चैव वैदेह्या विना ताम् अहम् अप्रियम् ॥
या मे राज्यविहीनस्य वने वन्येन जीवतः
सर्वं व्यपनयच्छोकम् वैदेही क्व नु सा गता ॥
ज्ञातिपक्षविहीनस्य राजपुत्रीम् अपश्यतः
मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः ॥
गोदावरीं जनस्थानम् इमं प्रस्रवणं गिरिम्
सर्वाण्य् अनुचरिष्यामि यदि सीता हि दृश्यते ॥
एवं सम्भाषमाणौ ताव् अन्योन्यं भ्रातराव् उभौ
वसुंधरायां पतितं पुष्पमार्गम् अपश्यताम् ॥
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले
उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ॥
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण
अपिनद्धानि वैदेह्या मया दत्तानि कानने ॥
एवम् उक्त्वा महाबाहुर् लक्ष्मणं पुरुषर्षभम्
क्रुद्धो ऽब्रवीद् गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥
तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत
यावत् सानूनि सर्वाणि न ते विध्वंसयाम्य् अहम् ॥
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि
असेव्यः सततं चैव निस्तृणद्रुमपल्लवः ॥
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण
यदि नाख्याति मे सीताम् अद्य चन्द्रनिभाननाम् ॥
एवं स रुषितो रामो दिधक्षन्न् इव चक्षुषा
ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् ॥
स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च
संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥
पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः
भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥
तप्तबिन्दुनिकाशैश् च चित्रैः क्षतजबिन्दुभिः
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥
मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः
भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥
तस्य निमित्तं वैदेह्या द्वयोर् विवदमानयोः
बभूव युद्धं सौमित्रे घोरं राक्षसयोर् इह ॥
मुक्तामणिचितं चेदं तपनीयविभूषितम्
धरण्यां पतितं सौम्य कस्य भग्नं महद् धनुः ॥
तरुणादित्यसंकाशं वैडूर्यगुलिकाचितम्
विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् ॥
छत्त्रं शतशलाकं च दिव्यमाल्योपशोभितम्
भग्नदण्डम् इदं कस्य भूमौ सौम्य निपातितम् ॥
काञ्चनोरश्छदाश् चेमे पिशाचवदनाः खराः
भीमरूपा महाकायाः कस्य वा निहता रणे ॥
दीप्तपावकसंकाशो द्युतिमान् समरध्वजः
अपविद्धश् च भग्नश् च कस्य सांग्रामिको रथः ॥
रथाक्षमात्रा विशिखास् तपनीयविभूषणाः
कस्येमे ऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥
वैरं शतगुणं पश्य ममेदं जीवितान्तकम्
सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ॥
हृता मृता वा सीता हि भक्षिता वा तपस्विनी
न धर्मस् त्रायते सीतां ह्रियमाणां महावने ॥
भक्षितायां हि वैदेह्यां हृतायाम् अपि लक्ष्मण
के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥
कर्तारम् अपि लोकानां शूरं करुणवेदिनम्
अज्ञानाद् अवमन्येरन् सर्वभूतानि लक्ष्मण ॥
मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्
निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥
मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण
अद्यैव सर्वभूतानां रक्षसाम् अभवाय च
संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः ॥
नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः
किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥
ममास्त्रबाणसम्पूर्णम् आकाशं पश्य लक्ष्मण
निःसम्पातं करिष्यामि ह्य् अद्य त्रैलोक्यचारिणाम् ॥
संनिरुद्धग्रहगणम् आवारितनिशाकरम्
विप्रनष्टानलमरुद् भास्करद्युतिसंवृतम् ॥
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्
ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥
न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः
अस्मिन् मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् ॥
नाकाशम् उत्पतिष्यन्ति सर्वभूतानि लक्ष्मण
मम चापगुणान् मुक्तैर् बाणजालैर् निरन्तरम् ॥
अर्दितं मम नाराचैर् ध्वस्तभ्रान्तमृगद्विजम्
समाकुलम् अमर्यादं जगत् पश्याद्य लक्ष्मण ॥
आकर्णपूर्णैर् इषुभिर् जीवलोकं दुरावरैः
करिष्ये मैथिलीहेतोर् अपिशाचम् अराक्षसम् ॥
मम रोषप्रयुक्तानां सायकानां बलं सुराः
द्रक्ष्यन्त्य् अद्य विमुक्तानाम् अमर्षाद् दूरगामिनाम् ॥
नैव देवा न दैतेया न पिशाचा न राक्षसाः
भविष्यन्ति मम क्रोधात् त्रैलोक्ये विप्रणाशिते ॥
देवदानवयक्षाणां लोका ये रक्षसाम् अपि
बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः
निर्मर्यादान् इमांल् लोकान् करिष्याम्य् अद्य सायकैः ॥
यथा जरा यथा मृत्युर् यथा कालो यथा विधिः
नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण
तथाहं क्रोधसंयुक्तो न निवार्यो ऽस्म्य् असंशयम् ॥
पुरेव मे चारुदतीम् अनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम्
सदेवगन्धर्वमनुष्यपन्नगं जगत् सशैलं परिवर्तयाम्य् अहम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0