रामायण (संशोधित पाठ) · अध्याय 3.59
दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः
रहितां पर्णशालां च विध्वस्तान्य् आसनानि च ॥
अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥
क्व नु लक्ष्मण वैदेही कं वा देशम् इतो गता
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥
वृक्षेणाच्छाद्य यदि मां सीते हसितुम् इच्छसि
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥
यैः सह क्रीडसे सीते विश्वस्तैर् मृगपोतकैः
एते हीनास् त्वया सौम्ये ध्यायन्त्य् अस्राविलेक्षणाः ॥
मृतं शोकेन महता सीताहरणजेन माम्
परलोके महाराजो नूनं द्रक्ष्यति मे पिता ॥
कथं प्रतिज्ञां संश्रुत्य मया त्वम् अभियोजितः
अपूरयित्वा तं कालं मत्सकाशम् इहागतः ॥
कामवृत्तम् अनार्यं मां मृषावादिनम् एव च
धिक् त्वाम् इति परे लोके व्यक्तं वक्ष्यति मे पिता ॥
विवशं शोकसंतप्तं दीनं भग्नमनोरथम्
माम् इहोत्सृज्य करुणं कीर्तिर् नरम् इवानृजुम् ॥
क्व गच्छसि वरारोहे माम् उत्सृज्य सुमध्यमे
त्वया विरहितश् चाहं मोक्ष्ये जीवितम् आत्मनः ॥
इतीव विलपन् रामः सीतादर्शनलालसः
न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ॥
अनासादयमानं तं सीतां दशरथात्मजम्
पङ्कम् आसाद्य विपुलं सीदन्तम् इव कुञ्जरम्
लक्ष्मणो रामम् अत्यर्थम् उवाच हितकाम्यया ॥
मा विषादं महाबाहो कुरु यत्नं मया सह
इदं च हि वनं शूर बहुकन्दरशोभितम् ॥
प्रियकाननसंचारा वनोन्मत्ता च मैथिली
सा वनं वा प्रविष्टा स्यान् नलिनीं वा सुपुष्पिताम् ॥
सरितं वापि सम्प्राप्ता मीनवञ्जुलसेविताम्
वित्रासयितुकामा वा लीना स्यात् कानने क्वचित्
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥
तस्या ह्य् अन्वेषणे श्रीमन् क्षिप्रम् एव यतावहे
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा
मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ॥
एवम् उक्तस् तु सौहार्दाल् लक्ष्मणेन समाहितः
सह सौमित्रिणा रामो विचेतुम् उपचक्रमे
तौ वनानि गिरींश् चैव सरितश् च सरांसि च ॥
निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ
तस्य शैलस्य सानूनि गुहाश् च शिखराणि च ॥
निखिलेन विचिन्वन्तौ नैव ताम् अभिजग्मतुः
विचित्य सर्वतः शैलं रामो लक्ष्मणम् अब्रवीत् ॥
नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यम् अब्रवीत् ॥
विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसम्
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥
यथा विष्णुर् महाबाहुर् बलिं बद्ध्वा महीम् इमाम्
एवम् उक्तस् तु वीरेण लक्ष्मणेन स राघवः ॥
उवाच दीनया वाचा दुःखाभिहतचेतनः
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः ॥
गिरिश् चायं महाप्राज्ञ बहुकन्दरनिर्झरः
न हि पश्यामि वैदेहीं प्राणेभ्यो ऽपि गरीयसीम् ॥
एवं स विलपन् रामः सीताहरणकर्शितः
दीनः शोकसमाविष्टो मुहूर्तं विह्वलो ऽभवत् ॥
स विह्वलितसर्वाङ्गो गतबुद्धिर् विचेतनः
विषसादातुरो दीनो निःश्वस्याशीतम् आयतम् ॥
बहुशः स तु निःश्वस्य रामो राजीवलोचनः
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥
तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः
बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः ॥
अनादृत्य तु तद् वाक्यं लक्ष्मणौष्ठपुटच्युतम्
अपश्यंस् तां प्रियां सीतां प्राक्रोशत् स पुनः पुनः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0