रामायण (संशोधित पाठ) · अध्याय 3.5
शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ॥
वैखानसा वालखिल्याः सम्प्रक्षाला मरीचिपाः
अश्मकुट्टाश् च बहवः पत्त्राहाराश् च तापसाः ॥
दन्तोलूखलिनश् चैव तथैवोन्मज्जकाः परे
मुनयः सलिलाहारा वायुभक्षास् तथापरे ॥
आकाशनिलयाश् चैव तथा स्थण्डिलशायिनः
तथोर्ध्ववासिनो दान्तास् तथार्द्रपटवाससः ॥
सजपाश् च तपोनित्यास् तथा पञ्चतपोऽन्विताः
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः
शरभङ्गाश्रमे रामम् अभिजग्मुश् च तापसाः ॥
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्
ऊचुः परमधर्मज्ञम् ऋषिसंघाः समाहिताः ॥
त्वम् इक्ष्वाकुकुलस्यास्य पृथिव्याश् च महारथः
प्रधानश् चासि नाथश् च देवानां मघवान् इव ॥
विश्रुतस् त्रिषु लोकेषु यशसा विक्रमेण च
पितृव्रतत्वं सत्यं च त्वयि धर्मश् च पुष्कलः ॥
त्वाम् आसाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्
अर्थित्वान् नाथ वक्ष्यामस् तच् च नः क्षन्तुम् अर्हसि ॥
अधर्मस् तु महांस् तात भवेत् तस्य महीपतेः
यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् ॥
युञ्जानः स्वान् इव प्राणान् प्राणैर् इष्टान् सुतान् इव
नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः ॥
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्
ब्रह्मणः स्थानम् आसाद्य तत्र चापि महीयते ॥
यत् करोति परं धर्मं मुनिर् मूलफलाशनः
तत्र राज्ञश् चतुर्भागः प्रजा धर्मेण रक्षतः ॥
सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्
त्वन् नाथो ऽनाथवद् राम राक्षसैर् वध्यते भृशम् ॥
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्
हतानां राक्षसैर् घोरैर् बहूनां बहुधा वने ॥
पम्पानदीनिवासानाम् अनुमन्दाकिनीम् अपि
चित्रकूटालयानां च क्रियते कदनं महत् ॥
एवं वयं न मृष्यामो विप्रकारं तपस्विनाम्
क्रियमाणं वने घोरं रक्षोभिर् भीमकर्मभिः ॥
ततस् त्वां शरणार्थं च शरण्यं समुपस्थिताः
परिपालय नो राम वध्यमानान् निशाचरैः ॥
एतच् छ्रुत्वा तु काकुत्स्थस् तापसानां तपस्विनाम्
इदं प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः
नैवम् अर्हथ मां वक्तुम् आज्ञाप्यो ऽहं तपस्विनाम् ॥
भवताम् अर्थसिद्ध्यर्थम् आगतो ऽहं यदृच्छया
तस्य मे ऽयं वने वासो भविष्यति महाफलः
तपस्विनां रणे शत्रून् हन्तुम् इच्छामि राक्षसान् ॥
दत्त्वा वरं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन
तपोधनैश् चापि सभाज्यवृत्तः सुतीक्ष्णम् एवाभिजगाम वीरः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0