भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.58

3.58.1

भृशम् आव्रजमानस्य तस्याधोवामलोचनम्
प्रास्फुरच् चास्खलद् रामो वेपथुश् चास्य जायते ॥

3.58.2

उपालक्ष्य निमित्तानि सो ऽशुभानि मुहुर् मुहुः
अपि क्षेमं तु सीताया इति वै व्याजहार ह ॥

3.58.3

त्वरमाणो जगामाथ सीतादर्शनलालसः
शून्यम् आवसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥

3.58.4

उद्भ्रमन्न् इव वेगेन विक्षिपन् रघुनन्दनः
तत्र तत्रोटजस्थानम् अभिवीक्ष्य समन्ततः ॥

3.58.5

ददर्श पर्णशालां च रहितां सीतया तदा
श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीम् इव ॥

3.58.6

रुदन्तम् इव वृक्षैश् च म्लानपुष्पमृगद्विजम्
श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम् ॥

3.58.7

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्
दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ॥

3.58.8

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति
निलीनाप्य् अथ वा भीरुर् अथ वा वनम् आश्रिता ॥

3.58.9

गता विचेतुं पुष्पाणि फलान्य् अपि च वा पुनः
अथ वा पद्मिनीं याता जलार्थं वा नदीं गता ॥

3.58.10

यत्नान् मृगयमाणस् तु नाससाद वने प्रियाम्
शोकरक्तेक्षणः शोकाद् उन्मत्त इव लक्ष्यते ॥

3.58.11

वृक्षाद् वृक्षं प्रधावन् स गिरींश् चापि नदीन् नदीम्
बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः ॥

3.58.12

अस्ति कच्चित् त्वया दृष्टा सा कदम्बप्रिया प्रिया
कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥

3.58.13

स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्
शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी ॥

3.58.14

अथ वार्जुन शंस त्वं प्रियां ताम् अर्जुनप्रियाम्
जनकस्य सुता भीरुर् यदि जीवति वा न वा ॥

3.58.15

ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्
लतापल्लवपुष्पाढ्यो भाति ह्य् एष वनस्पतिः ॥

3.58.16

भ्रमरैर् उपगीतश् च यथा द्रुमवरो ह्य् अयम्
एष व्यक्तं विजानाति तिलकस् तिलकप्रियाम् ॥

3.58.17

अशोक शोकापनुद शोकोपहतचेतसम्
त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥

3.58.18

यदि ताल त्वया दृष्टा पक्वतालफलस्तनी
कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥

3.58.19

यदि दृष्टा त्वया सीता जम्बु जाम्बूनदप्रभा
प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे ॥

3.58.20

अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम्
मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥

3.58.21

गज सा गजनासोरुर् यदि दृष्टा त्वया भवेत्
तां मन्ये विदितां तुभ्यम् आख्याहि वरवारण ॥

3.58.22

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना
मैथिली मम विश्रब्धः कथयस्व न ते भयम् ॥

3.58.23

किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे
वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥

3.58.24

तिष्ठ तिष्ठ वरारोहे न ते ऽस्ति करुणा मयि
नात्यर्थं हास्यशीलासि किमर्थं माम् उपेक्षसे ॥

3.58.25

पीतकौशेयकेनासि सूचिता वरवर्णिनि
धावन्त्य् अपि मया दृष्टा तिष्ठ यद्य् अस्ति सौहृदम् ॥

3.58.26

नैव सा नूनम् अथ वा हिंसिता चारुहासिनी
कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुम् अर्हति ॥

3.58.27

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः
विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥

3.58.28

नूनं तच् छुभदन्तौष्ठं मुखं निष्प्रभतां गतम्
सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता ॥

3.58.29

कोमला विलपन्त्यास् तु कान्ताया भक्षिता शुभा
नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ ॥

3.58.30

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
मया विरहिता बाला रक्षसां भक्षणाय वै ॥

3.58.31

सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा
हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित् ॥

3.58.32

हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः
इत्य् एवं विलपन् रामः परिधावन् वनाद् वनम् ॥

3.58.33

क्वचिद् उद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात्
क्वचिन् मत्त इवाभाति कान्तान्वेषणतत्परः ॥

3.58.34

स वनानि नदीः शैलान् गिरिप्रस्रवणानि च
काननानि च वेगेन भ्रमत्य् अपरिसंस्थितः ॥

3.58.35

तथा स गत्वा विपुलं महद् वनं परीत्य सर्वं त्व् अथ मैथिलीं प्रति
अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc