भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.57

3.57.1

अथाश्रमाद् उपावृत्तम् अन्तरा रघुनन्दनः
परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः ॥

3.57.2

तम् उवाच किमर्थं त्वम् आगतो ऽपास्य मैथिलीम्
यदा सा तव विश्वासाद् वने विरहिता मया ॥

3.57.3

दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण
शङ्कमानं महत् पापं यत् सत्यं व्यथितं मनः ॥

3.57.4

स्फुरते नयनं सव्यं बाहुश् च हृदयं च मे
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥

3.57.5

एवम् उक्तस् तु सौमित्रिर् लक्ष्मणः शुभलक्षणः
भूयो दुःखसमाविष्टो दुःखितं रामम् अब्रवीत् ॥

3.57.6

न स्वयं कामकारेण तां त्यक्त्वाहम् इहागतः
प्रचोदितस् तयैवोग्रैस् त्वत्सकाशम् इहागतः ॥

3.57.7

आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च
परित्राहीति यद् वाक्यं मैथिल्यास् तच् छ्रुतिं गतम् ॥

3.57.8

सा तम् आर्तस्वरं श्रुत्वा तव स्नेहेन मैथिली
गच्छ गच्छेति माम् आह रुदन्ती भयविह्वला ॥

3.57.9

प्रचोद्यमानेन मया गच्छेति बहुशस् तया
प्रत्युक्ता मैथिली वाक्यम् इदं त्वत्प्रत्ययान्वितम् ॥

3.57.10

न तत् पश्याम्य् अहं रक्षो यद् अस्य भयम् आवहेत्
निर्वृता भव नास्त्य् एतत् केनाप्य् एवम् उदाहृतम् ॥

3.57.11

विगर्हितं च नीचं च कथम् आर्यो ऽभिधास्यति
त्राहीति वचनं सीते यस् त्रायेत् त्रिदशान् अपि ॥

3.57.12

किंनिमित्तं तु केनापि भ्रातुर् आलम्ब्य मे स्वरम्
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि माम् इति
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥

3.57.13

अलं वैक्लव्यम् आलम्ब्य स्वस्था भव निरुत्सुका
न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे
जातो वा जायमानो वा संयुगे यः पराजयेत् ॥

3.57.14

एवम् उक्ता तु वैदेही परिमोहितचेतना
उवाचाश्रूणि मुञ्चन्ती दारुणं माम् इदं वचः ॥

3.57.15

भावो मयि तवात्यर्थं पाप एव निवेशितः
विनष्टे भ्रातरि प्राप्ते न च त्वं माम् अवाप्स्यसि ॥

3.57.16

संकेताद् भरतेन त्वं रामं समनुगच्छसि
क्रोशन्तं हि यथात्यर्थं नैनम् अभ्यवपद्यसे ॥

3.57.17

रिपुः प्रच्छन्नचारी त्वं मदर्थम् अनुगच्छसि
राघवस्यान्तरप्रेप्सुस् तथैनं नाभिपद्यसे ॥

3.57.18

एवम् उक्तो हि वैदेह्या संरब्धो रक्तलोचनः
क्रोधात् प्रस्फुरमाणौष्ठ आश्रमाद् अभिनिर्गतः ॥

3.57.19

एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः
अब्रवीद् दुष्कृतं सौम्य तां विना यत् त्वम् आगतः ॥

3.57.20

जानन्न् अपि समर्थं मां रक्षसां विनिवारणे
अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान् ॥

3.57.21

न हि ते परितुष्यामि त्यक्त्वा यद् यासि मैथिलीम्
क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वम् इहागतः ॥

3.57.22

सर्वथा त्व् अपनीतं ते सीतया यत् प्रचोदितः
क्रोधस्य वशम् आगम्य नाकरोः शासनं मम ॥

3.57.23

असौ हि राक्षसः शेते शरेणाभिहतो मया
मृगरूपेण येनाहम् आश्रमाद् अपवाहितः ॥

3.57.24

विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया
मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥

3.57.25

शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसंश्रवम्
उदाहृतं तद् वचनं सुदारुणं त्वम् आगतो येन विहाय मैथिलीम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc