रामायण (संशोधित पाठ) · अध्याय 3.56
स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः
पर्यपृच्छत धर्मात्मा वैदेहीम् आगतं विना ॥
प्रस्थितं दण्डकारण्यं या माम् अनुजगाम ह
क्व सा लक्ष्मण वैदेही यां हित्वा त्वम् इहागतः ॥
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥
यां विना नोत्सहे वीर मुहूर्तम् अपि जीवितुम्
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥
पतित्वम् अमराणां वा पृथिव्याश् चापि लक्ष्मण
विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् ॥
कच्चिज् जीवति वैदेही प्राणैः प्रियतरा मम
कच्चित् प्रव्राजनं सौम्य न मे मिथ्या भविष्यति ॥
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि
कच्चित् सकामा सुखिता कैकेयी सा भविष्यति ॥
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी
उपस्थास्यति कौसल्या कच्चित् सौम्य न कैकयीम् ॥
यदि जीवति वैदेही गमिष्याम्य् आश्रमं पुनः
सुवृत्ता यदि वृत्ता सा प्राणांस् त्यक्ष्यामि लक्ष्मण ॥
यदि माम् आश्रमगतं वैदेही नाभिभाषते
पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा
त्वयि प्रमत्ते रक्षोभिर् भक्षिता वा तपस्विनी ॥
सुकुमारी च बाला च नित्यं चादुःखदर्शिनी
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना
वदता लक्ष्मणेत्य् उच्चैस् तवापि जनितं भयम् ॥
श्रुतश् च शङ्के वैदेह्या स स्वरः सदृशो मम
त्रस्तया प्रेषितस् त्वं च द्रष्टुं मां शीघ्रम् आगतः ॥
सर्वथा तु कृतं कष्टं सीताम् उत्सृजता वने
प्रतिकर्तुं नृशंसानां रक्षसां दत्तम् अन्तरम् ॥
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः
तैः सीता निहता घोरैर् भविष्यति न संशयः ॥
अहो ऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन
किं त्व् इदानीं करिष्यामि शङ्के प्राप्तव्यम् ईदृशम् ॥
इति सीतां वरारोहां चिन्तयन्न् एव राघवः
आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥
विगर्हमाणो ऽनुजम् आर्तरूपं क्षुधा श्रमाच् चैव पिपासया च
विनिःश्वसञ् शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥
स्वम् आश्रमं संप्रविगाह्य वीरो विहारदेशान् अनुसृत्य कांश्चित्
एतत् तद् इत्य् एव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0