भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.55

3.55.1

राक्षसं मृगरूपेण चरन्तं कामरूपिणम्
निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत ॥

3.55.2

तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्
क्रूरस्वरो ऽथ गोमायुर् विननादास्य पृष्ठतः ॥

3.55.3

स तस्य स्वरम् आज्ञाय दारुणं रोमहर्षणम्
चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥

3.55.4

अशुभं बत मन्ये ऽहं गोमायुर् वाश्यते यथा
स्वस्ति स्याद् अपि वैदेह्या राक्षसैर् भक्षणं विना ॥

3.55.5

मारीचेन तु विज्ञाय स्वरम् आलक्ष्य मामकम्
विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि ॥

3.55.6

स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्
तयैव प्रहितः क्षिप्रं मत्सकाशम् इहैष्यति ॥

3.55.7

राक्षसैः सहितैर् नूनं सीताया ईप्सितो वधः
काञ्चनश् च मृगो भूत्वा व्यपनीयाश्रमात् तु माम् ॥

3.55.8

दूरं नीत्वा तु मारीचो राक्षसो ऽभूच् छराहतः
हा लक्ष्मण हतो ऽस्मीति यद् वाक्यं व्याजहार ह ॥

3.55.9

अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने
जनस्थाननिमित्तं हि कृतवैरो ऽस्मि राक्षसैः
निमित्तानि च घोराणि दृश्यन्ते ऽद्य बहूनि च ॥

3.55.10

इत्य् एवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्
आत्मनश् चापनयनं मृगरूपेण रक्षसा
आजगाम जनस्थानं राघवः परिशङ्कितः ॥

3.55.11

तं दीनमानसं दीनम् आसेदुर् मृगपक्षिणः
सव्यं कृत्वा महात्मानं घोरांश् च ससृजुः स्वरान् ॥

3.55.12

तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः
ततो लक्ष्मणम् आयान्तं ददर्श विगतप्रभम् ॥

3.55.13

ततो ऽविदूरे रामेण समीयाय स लक्ष्मणः
विषण्णः स विषण्णेन दुःखितो दुःखभागिना ॥

3.55.14

संजगर्हे ऽथ तं भ्राता ज्येष्ठो लक्ष्मणम् आगतम्
विहाय सीतां विजने वने राक्षससेविते ॥

3.55.15

गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः
उवाच मधुरोदर्कम् इदं परुषम् आर्तवत् ॥

3.55.16

अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम्
सीताम् इहागतः सौम्य कच्चित् स्वस्ति भवेद् इति ॥

3.55.17

न मे ऽस्ति संशयो वीर सर्वथा जनकात्मजा
विनष्टा भक्षिता वापि राक्षसैर् वनचारिभिः ॥

3.55.18

अशुभान्य् एव भूयिष्ठं यथा प्रादुर्भवन्ति मे
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे ॥

3.55.19

इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरम् अनुप्रयातम्
हतं कथंचिन् महता श्रमेण स राक्षसो ऽभून् म्रियमाण एव ॥

3.55.20

मनश् च मे दीनम् इहाप्रहृष्टं चक्षुश् च सव्यं कुरुते विकारम्
असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc