रामायण (संशोधित पाठ) · अध्याय 3.54
कृतान्तवशम् आपन्नो ममेयम् इति मन्यते
सा तथोक्ता तु वैदेही निर्भया शोककर्षिता
तृणम् अन्तरतः कृत्वा रावणं प्रत्यभाषत ॥
राजा दशरथो नाम धर्मसेतुर् इवाचलः
सत्यसंधः परिज्ञातो यस्य पुत्रः स राघवः ॥
रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः
दीर्घबाहुर् विशालाक्षो दैवतं स पतिर् मम ॥
इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः
लक्ष्मणेन सह भ्रात्रा यस् ते प्राणान् हरिष्यति ॥
प्रत्यक्षं यद्य् अहं तस्य त्वया स्यां धर्षिता बलात्
शयिता त्वं हतः संख्ये जनस्थाने यथा खरः ॥
य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः
राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा ॥
तस्य ज्याविप्रमुक्तास् ते शराः काञ्चनभूषणाः
शरीरं विधमिष्यन्ति गङ्गाकूलम् इवोर्मयः ॥
असुरैर् वा सुरैर् वा त्वं यद्य् अवधो ऽसि रावण
उत्पाद्य सुमहद् वैरं जीवंस् तस्य न मोक्ष्यसे ॥
स ते जीवितशेषस्य राघवो ऽन्तकरो बली
पशोर् यूपगतस्येव जीवितं तव दुर्लभम् ॥
यदि पश्येत् स रामस् त्वां रोषदीप्तेन चक्षुषा
रक्षस् त्वम् अद्य निर्दग्धो गच्छेः सद्यः पराभवम् ॥
यश् चन्द्रं नभसो भूमौ पातयेन् नाशयेत वा
सागरं शोषयेद् वापि स सीतां मोचयेद् इह ॥
गतायुस् त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः
लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति ॥
न ते पापम् इदं कर्म सुखोदर्कं भविष्यति
याहं नीता विना भावं पतिपार्श्वात् त्वया वनात् ॥
स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः
निर्भयो वीर्यम् आश्रित्य शून्ये वसति दण्डके ॥
स ते दर्पं बलं वीर्यम् उत्सेकं च तथाविधम्
अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे ॥
यदा विनाशो भूतानां दृश्यते कालचोदितः
तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः ॥
मां प्रधृष्य स ते कालः प्राप्तो ऽयं राक्षसाधम
आत्मनो राक्षसानां च वधायान्तःपुरस्य च ॥
न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्डमण्डिता
द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम् ॥
इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा
नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस
न हि शक्ष्याम्य् उपक्रोशं पृथिव्यां दातुम् आत्मनः ॥
एवम् उक्त्वा तु वैदेही क्रोधात् सुपरुषं वचः
रावणं मैथिली तत्र पुनर् नोवाच किंचन ॥
सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्
प्रत्युवाच ततः सीतां भयसंदर्शनं वचः ॥
शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि
कालेनानेन नाभ्येषि यदि मां चारुहासिनि
ततस् त्वां प्रातराशार्थं सूदाश् छेत्स्यन्ति लेशशः ॥
इत्य् उक्त्वा परुषं वाक्यं रावणः शत्रुरावणः
राक्षसीश् च ततः क्रुद्ध इदं वचनम् अब्रवीत् ॥
शीघ्रम् एवं हि राक्षस्यो विकृता घोरदर्शनाः
दर्पम् अस्या विनेष्यध्वं मांसशोणितभोजनाः ॥
वचनाद् एव तास् तस्य विकृता घोरदर्शनाः
कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन् ॥
स ताः प्रोवाच राजा तु रावणो घोरदर्शनः
प्रचाल्य चरणोत्कर्षैर् दारयन्न् इव मेदिनीम् ॥
अशोकवनिकामध्ये मैथिली नीयताम् इति
तत्रेयं रक्ष्यतां गूढम् युष्माभिः परिवारिता ॥
तत्रैनां तर्जनैर् घोरैः पुनः सान्त्वैश् च मैथिलीम्
आनयध्वं वशं सर्वा वन्यां गजवधूम् इव ॥
इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः
अशोकवनिकां जग्मुर् मैथिलीं परिगृह्य ताम् ॥
सर्वकामफलैर् वृक्षैर् नानापुष्पफलैर् वृताम्
सर्वकालमदैश् चापि द्विजैः समुपसेविताम् ॥
सा तु शोकपरीताङ्गी मैथिली जनकात्मजा
राक्षसीवशम् आपन्ना व्याघ्रीणां हरिणी यथा ॥
न विन्दते तत्र तु शर्म मैथिली विरूपनेत्राभिर् अतीव तर्जिता
पतिं स्मरन्ती दयितं च देवरं विचेतनाभूद् भयशोकपीडिता ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0