रामायण (संशोधित पाठ) · अध्याय 3.53
संदिश्य राक्षसान् घोरान् रावणो ऽष्टौ महाबलान्
आत्मानं बुद्धिवैक्लव्यात् कृतकृत्यम् अमन्यत ॥
स चिन्तयानो वैदेहीं कामबाणसमर्पितः
प्रविवेश गृहं रम्यं सीतां द्रष्टुम् अभित्वरन् ॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः
अपश्यद् राक्षसीमध्ये सीतां शोकपरायणाम् ॥
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्
वायुवेगैर् इवाक्रान्तां मज्जन्तीं नावम् अर्णवे ॥
मृगयूथपरिभ्रष्टां मृगीं श्वभिर् इवावृताम्
अधोमुखमुखीं दीनाम् अभ्येत्य च निशाचरः ॥
तां तु शोकवशां दीनाम् अवशां राक्षसाधिपः
स बलाद् दर्शयामास गृहं देवगृहोपमम् ॥
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्
नानापक्षिगणैर् जुष्टं नानारत्नसमन्वितम् ॥
काञ्चनैस् तापनीयैश् च स्फाटिकै राजतैस् तथा
वज्रवैडूर्यचित्रैश् च स्तम्भैर् दृष्टिमनोहरैः ॥
दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्
सोपानं काञ्चनं चित्रम् आरुरोह तया सह ॥
दान्तका राजताश् चैव गवाक्षाः प्रियदर्शनाः
हेमजालावृताश् चासंस् तत्र प्रासादपङ्क्तयः ॥
सुधामणिविचित्राणि भूमिभागानि सर्वशः
दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥
दीर्घिकाः पुष्करिण्यश् च नानापुष्पसमावृताः
रावणो दर्शयामास सीतां शोकपरायणाम् ॥
दर्शयित्वा तु वैदेहीं कृत्स्नं तद् भवनोत्तमम्
उवाच वाक्यं पापात्मा रावणो जनकात्मजाम् ॥
दशराक्षसकोट्यश् च द्वाविंशतिर् अथापराः
वर्जयित्वा जरावृद्धान् बालांश् च रजनीचरान् ॥
तेषां प्रभुर् अहं सीते सर्वेषां भीमकर्मणाम्
सहस्रम् एकम् एकस्य मम कार्यपुरःसरम् ॥
यद् इदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्
जीवितं च विशालाक्षि त्वं मे प्राणैर् गरीयसी ॥
बहूनां स्त्रीसहस्राणां मम यो ऽसौ परिग्रहः
तासां त्वम् ईश्वरी सीते मम भार्या भव प्रिये ॥
साधु किं ते ऽन्यया बुद्ध्या रोचयस्व वचो मम
भजस्व माभितप्तस्य प्रसादं कर्तुम् अर्हसि ॥
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना
नेयं धर्षयितुं शक्या सेन्द्रैर् अपि सुरासुरैः ॥
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु
अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥
राज्यभ्रष्टेन दीनेन तापसेन गतायुषा
किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥
भजस्व सीते माम् एव भर्ताहं सदृशस् तव
यौवनं ह्य् अध्रुवं भीरु रमस्वेह मया सह ॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने
कास्य शक्तिर् इहागन्तुम् अपि सीते मनोरथैः ॥
न शक्यो वायुर् आकाशे पाशैर् बद्धं महाजवः
दीप्यमानस्य वाप्य् अग्नेर् ग्रहीतुं विमलां शिखाम् ॥
त्रयाणाम् अपि लोकानां न तं पश्यामि शोभने
विक्रमेण नयेद् यस् त्वां मद्बाहुपरिपालिताम् ॥
लङ्कायां सुमहद् राज्यम् इदं त्वम् अनुपालय
अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम् ॥
दुष्कृतं यत् पुरा कर्म वनवासेन तद् गतम्
यश् च ते सुकृतो धर्मस् तस्येह फलम् आप्नुहि ॥
इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि
भूषणानि च मुख्यानि तानि सेव मया सह ॥
पुष्पकं नाम सुश्रोणि भ्रातुर् वैश्रवणस्य मे
विमानं रमणीयं च तद् विमानं मनोजवम् ॥
तत्र सीते मया सार्धं विहरस्व यथासुखम्
वदनं पद्मसंकाशं विमलं चारुदर्शनम् ॥
शोकार्तं तु वरारोहे न भ्राजति वरानने
अलं व्रीडेन वैदेहि धर्मलोपकृतेन ते ॥
आर्षो ऽयं दैवनिस्यन्दो यस् त्वाम् अभिगमिष्यति
एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥
प्रसादं कुरु मे क्षिप्रं वश्यो दासो ऽहम् अस्मि ते
नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥
न चापि रावणः कांचिन् मूर्ध्ना स्त्रीं प्रणमेत ह
एवम् उक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0