रामायण (संशोधित पाठ) · अध्याय 3.52
ह्रियमाणा तु वैदेही कंचिन् नाथम् अपश्यती
ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान् ॥
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्
उत्तरीयं वरारोहा शुभान्य् आभरणानि च
मुमोच यदि रामाय शंसेयुर् इति मैथिली ॥
वस्त्रम् उत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम्
सम्भ्रमात् तु दशग्रीवस् तत् कर्म न च बुद्धवान् ॥
पिङ्गाक्षास् तां विशालाक्षीं नेत्रैर् अनिमिषैर् इव
विक्रोशन्तीं तदा सीतां ददृशुर् वानरर्षभाः ॥
स च पम्पाम् अतिक्रम्य लङ्काम् अभिमुखः पुरीम्
जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः ॥
तां जहार सुसंहृष्टो रावणो मृत्युम् आत्मनः
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् ॥
वनानि सरितः शैलान् सरांसि च विहायसा
स क्षिप्रं समतीयाय शरश् चापाद् इव च्युतः ॥
तिमिनक्रनिकेतं तु वरुणालयम् अक्षयम्
सरितां शरणं गत्वा समतीयाय सागरम् ॥
सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः ॥
अन्तरिक्षगता वाचः ससृजुश् चारणास् तदा
एतदन्तो दशग्रीव इति सिद्धास् तदाब्रुवन् ॥
स तु सीतां विवेष्टन्तीम् अङ्केनादाय रावणः
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युम् आत्मनः ॥
सो ऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्
संरूढकक्ष्याबहुलं स्वम् अन्तःपुरम् आविशत् ॥
तत्र ताम् असितापाङ्गीं शोकमोहपरायणाम्
निदधे रावणः सीतां मयो मायाम् इवासुरीम् ॥
अब्रवीच् च दशग्रीवः पिशाचीर् घोरदर्शनाः
यथा नैनां पुमान् स्त्री वा सीतां पश्यत्य् असंमतः ॥
मुक्तामणिसुवर्णानि वस्त्राण्य् आभरणानि च
यद् यद् इच्छेत् तद् एवास्या देयं मच्छन्दतो यथा ॥
या च वक्ष्यति वैदेहीं वचनं किंचिद् अप्रियम्
अज्ञानाद् यदि वा ज्ञानान् न तस्या जीवितं प्रियम् ॥
तथोक्त्वा राक्षसीस् तास् तु राक्षसेन्द्रः प्रतापवान्
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यम् इति चिन्तयन्
ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः
उवाचैतान् इदं वाक्यं प्रशस्य बलवीर्यतः ॥
नानाप्रहरणाः क्षिप्रम् इतो गच्छत सत्वराः
जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥
तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे
पौरुषं बलम् आश्रित्य त्रासम् उत्सृज्य दूरतः ॥
बलं हि सुमहद् यन् मे जनस्थाने निवेशितम्
सदूषणखरं युद्धे हतं तद् रामसायकैः ॥
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते
वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥
निर्यातयितुम् इच्छामि तच् च वैरम् अहं रिपोः
न हि लप्स्याम्य् अहं निद्राम् अहत्वा संयुगे रिपुम् ॥
तं त्व् इदानीम् अहं हत्वा खरदूषणघातिनम्
रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥
जनस्थाने वसद्भिस् तु भवद्भी रामम् आश्रिता
प्रवृत्तिर् उपनेतव्या किं करोतीति तत्त्वतः ॥
अप्रमादाच् च गन्तव्यं सर्वैर् एव निशाचरैः
कर्तव्यश् च सदा यत्नो राघवस्य वधं प्रति ॥
युष्माकं हि बलज्ञो ऽहं बहुशो रणमूर्धनि
अतश् चास्मिञ् जनस्थाने मया यूयं नियोजिताः ॥
ततः प्रियं वाक्यम् उपेत्य राक्षसा महार्थम् अष्टाव् अभिवाद्य रावणम्
विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानम् अलक्ष्यदर्शनाः ॥
ततस् तु सीताम् उपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्
प्रसज्य रामेण च वैरम् उत्तमं बभूव मोहान् मुदितः स राक्षसः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0