भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.51

3.51.1

खम् उत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा
दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥

3.51.2

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्
रुदती करुणं सीता ह्रियमाणेदम् अब्रवीत् ॥

3.51.3

न व्यपत्रपसे नीच कर्मणानेन रावण
ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ॥

3.51.4

त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुम् इच्छता
ममापवाहितो भर्ता मृगरूपेण मायया
यो हि माम् उद्यतस् त्रातुं सो ऽप्य् अयं विनिपातितः ॥

3.51.5

परमं खलु ते वीर्यं दृश्यते राक्षसाधम
विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया ॥

3.51.6

ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे
स्त्रियाश् च हरणं नीच रहिते च परस्य च ॥

3.51.7

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्
सुनृशंसम् अधर्मिष्ठं तव शौण्डीर्यमानिनः ॥

3.51.8

धिक् ते शौर्यं च सत्त्वं च यत् त्वया कथितं तदा
कुलाक्रोशकरं लोके धिक् ते चारित्रम् ईदृशम् ॥

3.51.9

किं शक्यं कर्तुम् एवं हि यज् जवेनैव धावसि
मुहूर्तम् अपि तिष्ठस्व न जीवन् प्रतियास्यसि ॥

3.51.10

न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः
ससैन्यो ऽपि समर्थस् त्वं मुहूर्तम् अपि जीवितुम् ॥

3.51.11

न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन
वने प्रज्वलितस्येव स्पर्शम् अग्नेर् विहंगमः ॥

3.51.12

साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण
मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर् मम
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥

3.51.13

येन त्वं व्यवसायेन बलान् मां हर्तुम् इच्छसि
व्यवसायः स ते नीच भविष्यति निरर्थकः ॥

3.51.14

न ह्य् अहं तम् अपश्यन्ती भर्तारं विबुधोपमम्
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ॥

3.51.15

न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ॥

3.51.16

मुमूर्षूणां हि सर्वेषां यत् पथ्यं तन् न रोचते
पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम् ॥

3.51.17

यथा चास्मिन् भयस्थाने न बिभेषि दशानन
व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान् ॥

3.51.18

नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम्
खड्गपत्त्रवनं चैव भीमं पश्यसि रावण ॥

3.51.19

तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम्
द्रक्ष्यसे शाल्मलीं तीक्ष्णाम् आयसैः कण्टकैश् चिताम् ॥

3.51.20

न हि त्वम् ईदृशं कृत्वा तस्यालीकं महात्मनः
धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ॥

3.51.21

बद्धस् त्वं कालपाशेन दुर्निवारेण रावण
क्व गतो लप्स्यसे शर्म भर्तुर् मम महात्मनः ॥

3.51.22

निमेषान्तरमात्रेण विना भ्रातरम् आहवे
राक्षसा निहता येन सहस्राणि चतुर्दश ॥

3.51.23

स कथं राघवो वीरः सर्वास्त्रकुशलो बली
न त्वां हन्याच् छरैस् तीक्ष्णैर् इष्टभार्यापहारिणम् ॥

3.51.24

एतच् चान्यच् च परुषं वैदेही रावणाङ्कगा
भयशोकसमाविष्टा करुणं विललाप ह ॥

3.51.25

तथा भृशार्तां बहु चैव भाषिणीं विललाप पूर्वं करुणं च भामिनीम्
जहार पापस् तरुणीं विवेष्टतीं नृपात्मजाम् आगतगात्रवेपथुम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc