भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.50

3.50.1

तम् अल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः
ददर्श गृध्रं पतितं समीपे राघवाश्रमात् ॥

3.50.2

सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥

3.50.3

निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्
अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते ॥

3.50.4

न नूनं राम जानासि महद् व्यसनम् आत्मनः
धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः ॥

3.50.5

त्राहि माम् अद्य काकुत्स्थ लक्ष्मणेति वराङ्गना
सुसंत्रस्ता समाक्रन्दच् छृण्वतां तु यथान्तिके ॥

3.50.6

तां क्लिष्टमाल्याभरणां विलपन्तीम् अनाथवत्
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥

3.50.7

तां लताम् इव वेष्टन्तीम् आलिङ्गन्तीं महाद्रुमान्
मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः ॥

3.50.8

क्रोशन्तीं राम रामेति रामेण रहितां वने
जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥

3.50.9

प्रधर्षितायां वैदेह्यां बभूव सचराचरम्
जगत् सर्वम् अमर्यादं तमसान्धेन संवृतम् ॥

3.50.10

दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा
कृतं कार्यम् इति श्रीमान् व्याजहार पितामहः ॥

3.50.11

प्रहृष्टा व्यथिताश् चासन् सर्वे ते परमर्षयः
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः ॥

3.50.12

स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च
जगामाकाशम् आदाय रावणो राक्षसाधिपः ॥

3.50.13

तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी
रराज राजपुत्री तु विद्युत् सौदामनी यथा ॥

3.50.14

उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः
अधिकं परिबभ्राज गिरिर् दीप्त इवाग्निना ॥

3.50.15

तस्याः परमकल्याण्यास् ताम्राणि सुरभीणि च
पद्मपत्त्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥

3.50.16

तस्याः कौशेयम् उद्धूतम् आकाशे कनकप्रभम्
बभौ चादित्यरागेण ताम्रम् अभ्रम् इवातपे ॥

3.50.17

तस्यास् तद् विमलं वक्त्रम् आकाशे रावणाङ्कगम्
न रराज विना रामं विनालम् इव पङ्कजम् ॥

3.50.18

बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः
सुललाटं सुकेशान्तं पद्मगर्भाभम् अव्रणम्
शुक्लैः सुविमलैर् दन्तैः प्रभावद्भिर् अलंकृतम् ॥

3.50.19

रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम्
सुनासं चारुताम्रौष्ठम् आकाशे हाटकप्रभम् ॥

3.50.20

राक्षसेन्द्रसमाधूतं तस्यास् तद् वचनं शुभम्
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥

3.50.21

सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्
शुशुभे काञ्चनी काञ्ची नीलं मणिम् इवाश्रिता ॥

3.50.22

सा पद्मगौरी हेमाभा रावणं जनकात्मजा
विद्युद्घनम् इवाविश्य शुशुभे तप्तभूषणा ॥

3.50.23

तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः
बभूव विमलो नीलः सघोष इव तोयदः ॥

3.50.24

उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः
सीताया ह्रियमाणायाः पपात धरणीतले ॥

3.50.25

सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः
समाधूता दशग्रीवं पुनर् एवाभ्यवर्तत ॥

3.50.26

अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्
नक्षत्रमालाविमला मेरुं नगम् इवोत्तमम् ॥

3.50.27

चरणान् नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्
विद्युन्मण्डलसंकाशं पपात मधुरस्वनम् ॥

3.50.28

तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्
प्राशोभयत वैदेही गजं कष्येव काञ्चनी ॥

3.50.29

तां महोल्काम् इवाकाशे दीप्यमानां स्वतेजसा
जहाराकाशम् आविश्य सीतां वैश्रवणानुजः ॥

3.50.30

तस्यास् तान्य् अग्निवर्णानि भूषणानि महीतले
सघोषाण्य् अवकीर्यन्त क्षीणास् तारा इवाम्बरात् ॥

3.50.31

तस्याः स्तनान्तराद् भ्रष्टो हारस् ताराधिपद्युतिः
वैदेह्या निपतन् भाति गङ्गेव गगनाच् च्युता ॥

3.50.32

उत्पातवाताभिहता नानाद्विजगणायुताः
मा भैर् इति विधूताग्रा व्याजह्रुर् इव पादपाः ॥

3.50.33

नलिन्यो ध्वस्तकमलास् त्रस्तमीनजले चराः
सखीम् इव गतोत्साहां शोचन्तीव स्म मैथिलीम् ॥

3.50.34

समन्ताद् अभिसंपत्य सिंहव्याघ्रमृगद्विजाः
अन्वधावंस् तदा रोषात् सीताछायानुगामिनः ॥

3.50.35

जलप्रपातास्रमुखाः शृङ्गैर् उच्छ्रितबाहवः
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥

3.50.36

ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः
प्रविध्वस्तप्रभः श्रीमान् आसीत् पाण्डुरमण्डलः ॥

3.50.37

नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता
यत्र रामस्य वैदेहीं भार्यां हरति रावणः ॥

3.50.38

इति सर्वाणि भूतानि गणशः पर्यदेवयन्
वित्रस्तका दीनमुखा रुरुदुर् मृगपोतकाः ॥

3.50.39

उद्वीक्ष्योद्वीक्ष्य नयनैर् आस्रपाताविलेक्षणाः
सुप्रवेपितगात्राश् च बभूवुर् वनदेवताः ॥

3.50.40

विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् ॥

3.50.41

अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्
स ताम् आकुलकेशान्तां विप्रमृष्टविशेषकाम्
जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥

3.50.42

ततस् तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली
अपश्यती राघवलक्ष्मणाव् उभौ विवर्णवक्त्रा भयभारपीडिता ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc