भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.49

3.49.1

इत्य् उक्तस्य यथान्यायं रावणस्य जटायुषा
क्रुद्धस्याग्निनिभाः सर्वा रेजुर् विंशतिदृष्टयः ॥

3.49.2

संरक्तनयनः कोपात् तप्तकाञ्चनकुण्डलः
राक्षसेन्द्रो ऽभिदुद्राव पतगेन्द्रम् अमर्षणः ॥

3.49.3

स सम्प्रहारस् तुमुलस् तयोस् तस्मिन् महावने
बभूव वातोद्धतयोर् मेघयोर् गगने यथा ॥

3.49.4

तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस् तदा
सपक्षयोर् माल्यवतोर् महापर्वतयोर् इव ॥

3.49.5

ततो नालीकनाराचैस् तीक्ष्णाग्रैश् च विकर्णिभिः
अभ्यवर्षन् महाघोरैर् गृध्रराजं महाबलः ॥

3.49.6

स तानि शरजालानि गृध्रः पत्त्ररथेश्वरः
जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे ॥

3.49.7

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः
चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥

3.49.8

अथ क्रोधाद् दशग्रीवो जग्राह दशमार्गणान्
मृत्युदण्डनिभान् घोराञ् शत्रुमर्दनकाङ्क्षया ॥

3.49.9

स तैर् बाणैर् महावीर्यः पूर्णमुक्तैर् अजिह्मगैः
बिभेद निशितैस् तीक्ष्णैर् गृध्रं घोरैः शिलीमुखैः ॥

3.49.10

स राक्षसरथे पश्यञ् जानकीं बाष्पलोचनाम्
अचिन्तयित्वा बाणांस् तान् राक्षसं समभिद्रवत् ॥

3.49.11

ततो ऽस्य सशरं चापं मुक्तामणिविभूषितम्
चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः ॥

3.49.12

तच् चाग्निसदृशं दीप्तं रावणस्य शरावरम्
पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः ॥

3.49.13

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्
तांश् चास्य जवसम्पन्नाञ् जघान समरे बली ॥

3.49.14

वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्
मणिहेमविचित्राङ्गं बभञ्ज च महारथम्
पूर्णचन्द्रप्रतीकाशं छत्त्रं च व्यजनैः सह ॥

3.49.15

स भग्नधन्वा विरथो हताश्वो हतसारथिः
अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥

3.49.16

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्
साधु साध्व् इति भूतानि गृध्रराजम् अपूजयन् ॥

3.49.17

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्
उत्पपात पुनर् हृष्टो मैथिलीं गृह्य रावणः ॥

3.49.18

तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्
गृध्रराजः समुत्पत्य जटायुर् इदम् अब्रवीत् ॥

3.49.19

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण
अल्पबुद्धे हरस्य् एनां वधाय खलु रक्षसाम् ॥

3.49.20

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः
विषपानं पिबस्य् एतत् पिपासित इवोदकम् ॥

3.49.21

अनुबन्धम् अजानन्तः कर्मणाम् अविचक्षणाः
शीघ्रम् एव विनश्यन्ति यथा त्वं विनशिष्यसि ॥

3.49.22

बद्धस् त्वं कालपाशेन क्व गतस् तस्य मोक्ष्यसे
वधाय बडिशं गृह्य सामिषं जलजो यथा ॥

3.49.23

न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण
धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ ॥

3.49.24

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्
तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥

3.49.25

युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण
शयिष्यसे हतो भूमौ यथा भ्राता खरस् तथा ॥

3.49.26

परेतकाले पुरुषो यत् कर्म प्रतिपद्यते
विनाशायात्मनो ऽधर्म्यं प्रतिपन्नो ऽसि कर्म तत् ॥

3.49.27

पापानुबन्धो वै यस्य कर्मणः को नु तत् पुमान्
कुर्वीत लोकाधिपतिः स्वयम्भूर् भगवान् अपि ॥

3.49.28

एवम् उक्त्वा शुभं वाक्यं जटायुस् तस्य रक्षसः
निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् ॥

3.49.29

तं गृहीत्वा नखैस् तीक्ष्णैर् विरराद समन्ततः
अधिरूढो गजारोहो यथा स्याद् दुष्टवारणम् ॥

3.49.30

विरराद नखैर् अस्य तुण्डं पृष्ठे समर्पयन्
केशांश् चोत्पाटयामास नखपक्षमुखायुधः ॥

3.49.31

स तथा गृध्रराजेन क्लिश्यमानो मुहुर् मुहुः
अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः ॥

3.49.32

सम्परिष्वज्य वैदेहीं वामेनाङ्केन रावणः
तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः ॥

3.49.33

जटायुस् तम् अतिक्रम्य तुण्डेनास्य खराधिपः
वामबाहून् दश तदा व्यपाहरद् अरिंदमः ॥

3.49.34

ततः क्रुद्धो दशग्रीवः सीताम् उत्सृज्य वीर्यवान्
मुष्टिभ्यां चरणाभ्यां च गृध्रराजम् अपोथयत् ॥

3.49.35

ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः
राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥

3.49.36

तस्य व्यायच्छमानस्य रामस्यार्थे ऽथ रावणः
पक्षौ पादौ च पार्श्वौ च खड्गम् उद्धृत्य सोच्छिनत् ॥

3.49.37

स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा
निपपात हतो गृध्रो धरण्याम् अल्पजीवितः ॥

3.49.38

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्
अभ्यधावत वैदेही स्वबन्धुम् इव दुःखिता ॥

3.49.39

तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कम् उदारवीर्यम्
ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तम् इवाग्निदावम् ॥

3.49.40

ततस् तु तं पत्त्ररथं महीतले निपातितं रावणवेगमर्दितम्
पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc