रामायण (संशोधित पाठ) · अध्याय 3.48
तं शब्दम् अवसुप्तस्य जटायुर् अथ शुश्रुवे
निरैक्षद् रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥
ततः पर्वतकूटाभस् तीक्ष्णतुण्डः खगोत्तमः
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम् ॥
दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः
जटायुर् नाम नाम्नाहं गृध्रराजो महाबलः ॥
राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः
लोकानां च हिते युक्तो रामो दशरथात्मजः ॥
तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी
सीता नाम वरारोहा यां त्वं हर्तुम् इहेच्छसि ॥
कथं राजा स्थितो धर्मे परदारान् परामृशेत्
रक्षणीया विशेषेण राजदारा महाबल
निवर्तय मतिं नीचां परदाराभिमर्शनम् ॥
न तत् समाचरेद् धीरो यत् परो ऽस्य विगर्हयेत्
यथात्मनस् तथान्येषां दारा रक्ष्या विमर्शनात् ॥
अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्
व्यवस्यन्त्य् अनु राजानं धर्मं पौलस्त्यनन्दन ॥
राजा धर्मश् च कामश् च द्रव्याणां चोत्तमो निधिः
धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते ॥
पापस्वभावश् चपलः कथं त्वं रक्षसां वर
ऐश्वर्यम् अभिसम्प्राप्तो विमानम् इव दुष्कृतिः ॥
कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम्
न हि दुष्टात्मनाम् आर्यम् आवसत्य् आलये चिरम् ॥
विषये वा पुरे वा ते यदा रामो महाबलः
नापराध्यति धर्मात्मा कथं तस्यापराध्यसि ॥
यदि शूर्पणखाहेतोर् जनस्थानगतः खरः
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥
अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः
यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥
क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा
दहेद् दहनभूतेन वृत्रम् इन्द्राशनिर् यथा ॥
सर्पम् आशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे
ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥
स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्
तद् अन्नम् उपभोक्तव्यं जीर्यते यद् अनामयम् ॥
यत् कृत्वा न भवेद् धर्मो न कीर्तिर् न यशो भुवि
शरीरस्य भवेत् खेदः कस् तत् कर्म समाचरेत् ॥
षष्टिवर्षसहस्राणि मम जातस्य रावण
पितृपैतामहं राज्यं यथावद् अनुतिष्ठतः ॥
वृद्धो ऽहं त्वं युवा धन्वी सरथः कवची शरी
तथाप्य् आदाय वैदेहीं कुशली न गमिष्यसि ॥
न शक्तस् त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः
हेतुभिर् न्यायसंयुक्तैर् ध्रुवां वेदश्रुतिम् इव ॥
युध्यस्व यदि शूरो ऽसि मुहूर्तं तिष्ठ रावण
शयिष्यसे हतो भूमौ यथापूर्वं खरस् तथा ॥
असकृत् संयुगे येन निहता दैत्यदानवाः
नचिराच् चीरवासास् त्वां रामो युधि वधिष्यति ॥
किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ
क्षिप्रं त्वं नश्यसे नीच तयोर् भीतो न संशयः ॥
न हि मे जीवमानस्य नयिष्यसि शुभाम् इमाम्
सीतां कमलपत्त्राक्षीं रामस्य महिषीं प्रियाम् ॥
अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः
जीवितेनापि रामस्य तथा दशरथस्य च ॥
तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर
वृन्ताद् इव फलं त्वां तु पातयेयं रथोत्तमात् ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0