रामायण (संशोधित पाठ) · अध्याय 3.47
सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्
हस्ते हस्तं समाहत्य चकार सुमहद् वपुः ॥
स मैथिलीं पुनर् वाक्यं बभाषे च ततो भृशम्
नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥
उद्वहेयं भुजाभ्यां तु मेदिनीम् अम्बरे स्थितः
आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः ॥
अर्कं रुन्ध्यां शरैस् तीक्ष्णैर् विभिन्द्यां हि महीतलम्
कामरूपिणम् उन्मत्ते पश्य मां कामदं पतिम् ॥
एवम् उक्तवतस् तस्य रावणस्य शिखिप्रभे
क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः ॥
सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः
स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥
संरक्तनयनः श्रीमांस् तप्तकाञ्चनकुण्डलः
दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः ॥
स परिव्राजकच्छद्म महाकायो विहाय तत्
प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः ॥
संरक्तनयनः क्रोधाज् जीमूतनिचयप्रभः
रक्ताम्बरधरस् तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥
स ताम् असितकेशान्तां भास्करस्य प्रभाम् इव
वसनाभरणोपेतां मैथिलीं रावणो ऽब्रवीत् ॥
त्रिषु लोकेषु विख्यातं यदि भर्तारम् इच्छसि
माम् आश्रय वरारोहे तवाहं सदृशः पतिः ॥
मां भजस्व चिराय त्वम् अहं श्लाघ्यस् तव प्रियः
नैव चाहं क्वचिद् भद्रे करिष्ये तव विप्रियम्
त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् ॥
राज्याच् च्युतम् असिद्धार्थं रामं परिमितायुषम्
कैर् गुणैर् अनुरक्तासि मूढे पण्डितमानिनि ॥
यः स्त्रिया वचनाद् राज्यं विहाय ससुहृज्जनम्
अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः ॥
इत्य् उक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्
जग्राह रावणः सीतां बुधः खे रोहिणीम् इव ॥
वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः
ऊर्वोस् तु दक्षिणेनैव परिजग्राह पाणिना ॥
तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्
प्राद्रवन् मृत्युसंकाशं भयार्ता वनदेवताः ॥
स च मायामयो दिव्यः खरयुक्तः खरस्वनः
प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः ॥
ततस् तां परुषैर् वाक्यैर् अभितर्ज्य महास्वनः
अङ्केनादाय वैदेहीं रथम् आरोपयत् तदा ॥
सा गृहीतातिचुक्रोश रावणेन यशस्विनी
रामेति सीता दुःखार्ता रामं दूरगतं वने ॥
ताम् अकामां स कामार्तः पन्नगेन्द्रवधूम् इव
विवेष्टमानाम् आदाय उत्पपाताथ रावणः ॥
ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा
भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥
हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक
ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥
जीवितं सुखम् अर्थांश् च धर्महेतोः परित्यजन्
ह्रियमाणाम् अधर्मेण मां राघव न पश्यसि ॥
ननु नामाविनीतानां विनेतासि परंतप
कथम् एवंविधं पापं न त्वं शाधि हि रावणम् ॥
ननु सद्यो ऽविनीतस्य दृश्यते कर्मणः फलम्
कालो ऽप्य् अङ्गी भवत्य् अत्र सस्यानाम् इव पक्तये ॥
स कर्म कृतवान् एतत् कालोपहतचेतनः
जीवितान्तकरं घोरं रामाद् व्यसनम् आप्नुहि ॥
हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह
ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ॥
आमन्त्रये जनस्थानं कर्णिकारांश् च पुष्पितान्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥
माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥
हंससारससंघुष्टां वन्दे गोदावरीं नदीम्
क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥
दैवतानि च यान्त्य् अस्मिन् वने विविधपादपे
नमस्करोम्य् अहं तेभ्यो भर्तुः शंसत मां हृताम् ॥
यानि कानिचिद् अप्य् अत्र सत्त्वानि निवसन्त्य् उत
सर्वाणि शरणं यामि मृगपक्षिगणान् अपि ॥
ह्रियमाणां प्रियां भर्तुः प्राणेभ्यो ऽपि गरीयसीम्
विवशापहृता सीता रावणेनेति शंसत ॥
विदित्वा मां महाबाहुर् अमुत्रापि महाबलः
आनेष्यति पराक्रम्य वैवस्वतहृताम् अपि ॥
रामाय तु यथातत्त्वं जटायो हरणं मम
लक्ष्मणाय च तत् सर्वम् आख्यातव्यम् अशेषतः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0