रामायण (संशोधित पाठ) · अध्याय 3.46
एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम्
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह ॥
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः
विद्रवन्ति भयाद् भीता मृत्योर् इव सदा प्रजाः ॥
येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे
द्वंद्वम् आसादितः क्रोधाद् रणे विक्रम्य निर्जितः ॥
मद्भयार्तः परित्यज्य स्वम् अधिष्ठानम् ऋद्धिमत्
कैलासं पर्वतश्रेष्ठम् अध्यास्ते नरवाहनः ॥
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्
वीर्याद् आवर्जितं भद्रे येन यामि विहायसम् ॥
मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥
यत्र तिष्ठाम्य् अहं तत्र मारुतो वाति शङ्कितः
तीव्रांशुः शिशिरांशुश् च भयात् सम्पद्यते रविः ॥
निष्कम्पपत्त्रास् तरवो नद्यश् च स्तिमितोदकाः
भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च ॥
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा
सम्पूर्णा राक्षसैर् घोरैर् यथेन्द्रस्यामरावती ॥
प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता
हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा ॥
हस्त्यश्वरथसम्बाधा तूर्यनादविनादिता
सर्वकामफलैर् वृक्षैः संकुलोद्यानशोभिता ॥
तत्र त्वं वसती सीते राजपुत्रि मया सह
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनि ॥
भुञ्जाना मानुषान् भोगान् दिव्यांश् च वरवर्णिनि
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः ॥
स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः
मन्दवीर्यः सुतो ज्येष्ठस् ततः प्रस्थापितो वनम् ॥
तेन किं भ्रष्टराज्येन रामेण गतचेतसा
करिष्यसि विशालाक्षि तापसेन तपस्विना ॥
सर्वराक्षसभर्तारं कामात् स्वयम् इहागतम्
न मन्मथशराविष्टं प्रत्याख्यातुं त्वम् अर्हसि ॥
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि
चरणेनाभिहत्येव पुरूरवसम् उर्वशी ॥
एवम् उक्ता तु वैदेही क्रुद्धा संरक्तलोचना
अब्रवीत् परुषं वाक्यं रहिते राक्षसाधिपम् ॥
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्
भ्रातरं व्यपदिश्य त्वम् अशुभं कर्तुम् इच्छसि ॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
येषां त्वं कर्कशो राजा दुर्बुद्धिर् अजितेन्द्रियः ॥
अपहृत्य शचीं भार्यां शक्यम् इन्द्रस्य जीवितुम्
न तु रामस्य भार्यां माम् अपनीयास्ति जीवितम् ॥
जीवेच् चिरं वज्रधरस्य हस्ताच् छचीं प्रधृष्याप्रतिरूपरूपाम्
न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥
मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0