भाषा

ENहिગુ
ग्रंथ पाठ

रामायण (संशोधित पाठ) · अध्याय 3.45

3.45.1

रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा
परिव्राजकरूपेण शशंसात्मानम् आत्मना ॥

3.45.2

ब्राह्मणश् चातिथिश् चैष अनुक्तो हि शपेत माम्
इति ध्यात्वा मुहूर्तं तु सीता वचनम् अब्रवीत् ॥

3.45.3

दुहिता जनकस्याहं मैथिलस्य महात्मनः
सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम ॥

3.45.4

संवत्सरं चाध्युषिता राघवस्य निवेशने
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥

3.45.5

ततः संवत्सराद् ऊर्ध्वं सममन्यत मे पतिम्
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥

3.45.6

तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने
कैकेयी नाम भर्तारं ममार्या याचते वरम् ॥

3.45.7

प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे
मम प्रव्राजनं भर्तुर् भरतस्याभिषेचनम्
द्वाव् अयाचत भर्तारं सत्यसंधं नृपोत्तमम् ॥

3.45.8

नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये ऽहं कदाचन
एष मे जीवितस्यान्तो रामो यद्य् अभिषिच्यते ॥

3.45.9

इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः
अयाचतार्थैर् अन्वर्थैर् न च याच्ञां चकार सा ॥

3.45.10

मम भर्ता महातेजा वयसा पञ्चविंशकः
रामेति प्रथितो लोके गुणवान् सत्यवाक् शुचिः
विशालाक्षो महाबाहुः सर्वभूतहिते रतः ॥

3.45.11

अभिषेकाय तु पितुः समीपं रामम् आगतम्
कैकेयी मम भर्तारम् इत्य् उवाच द्रुतं वचः ॥

3.45.12

तव पित्रा समाज्ञप्तं ममेदं शृणु राघव
भरताय प्रदातव्यम् इदं राज्यम् अकण्टकम् ॥

3.45.13

त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ॥

3.45.14

तथेत्य् उवाच तां रामः कैकेयीम् अकुतोभयः
चकार तद्वचस् तस्या मम भर्ता दृढव्रतः ॥

3.45.15

दद्यान् न प्रतिगृह्णीयात् सत्यं ब्रूयान् न चानृतम्
एतद् ब्राह्मण रामस्य व्रतं ध्रुवम् अनुत्तमम् ॥

3.45.16

तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्
रामस्य पुरुषव्याघ्रः सहायः समरे ऽरिहा ॥

3.45.17

स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः
अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह ॥

3.45.18

ते वयं प्रच्युता राज्यात् कैकेय्यास् तु कृते त्रयः
विचराम द्विजश्रेष्ठ वनं गम्भीरम् ओजसा ॥

3.45.19

समाश्वस मुहूर्तं तु शक्यं वस्तुम् इह त्वया
आगमिष्यति मे भर्ता वन्यम् आदाय पुष्कलम् ॥

3.45.20

स त्वं नाम च गोत्रं च कुलम् आचक्ष्व तत्त्वतः
एकश् च दण्डकारण्ये किमर्थं चरसि द्विज ॥

3.45.21

एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥

3.45.22

येन वित्रासिता लोकाः सदेवासुरपन्नगाः
अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥

3.45.23

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्
रतिं स्वकेषु दारेषु नाधिगच्छाम्य् अनिन्दिते ॥

3.45.24

बह्वीनाम् उत्तमस्त्रीणाम् आहृतानाम् इतस् ततः
सर्वासाम् एव भद्रं ते ममाग्रमहिषी भव ॥

3.45.25

लङ्का नाम समुद्रस्य मध्ये मम महापुरी
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥

3.45.26

तत्र सीते मया सार्धं वनेषु विचरिष्यसि
न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि ॥

3.45.27

पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥

3.45.28

रावणेनैवम् उक्ता तु कुपिता जनकात्मजा
प्रत्युवाचानवद्याङ्गी तम् अनादृत्य राक्षसम् ॥

3.45.29

महागिरिम् इवाकम्प्यं महेन्द्रसदृशं पतिम्
महोदधिम् इवाक्षोभ्यम् अहं रामम् अनुव्रता ॥

3.45.30

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्
नृसिंहं सिंहसंकाशम् अहं रामम् अनुव्रता ॥

3.45.31

पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम्
पृथुकीर्तिं महाबाहुम् अहं रामम् अनुव्रता ॥

3.45.32

त्वं पुनर् जम्बुकः सिंहीं माम् इहेच्छसि दुर्लभाम्
नाहं शक्या त्वया स्प्रष्टुम् आदित्यस्य प्रभा यथा ॥

3.45.33

पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्
राघवस्य प्रियां भार्यां यस् त्वम् इच्छसि रावण ॥

3.45.34

क्षुधितस्य च सिंहस्य मृगशत्रोस् तरस्विनः
आशीविषस्य वदनाद् दंष्ट्राम् आदातुम् इच्छसि ॥

3.45.35

मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुम् इच्छसि
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुम् इच्छसि ॥

3.45.36

अक्षिसूच्या प्रमृजसि जिह्वया लेक्षि च क्षुरम्
राघवस्य प्रियां भार्याम् अधिगन्तुं त्वम् इच्छसि ॥

3.45.37

अवसज्य शिलां कण्ठे समुद्रं तर्तुम् इच्छसि
सूर्याचन्द्रमसौ चोभौ प्राणिभ्यां हर्तुम् इच्छसि
यो रामस्य प्रियां भार्यां प्रधर्षयितुम् इच्छसि ॥

3.45.38

अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुम् इच्छसि
कल्याणवृत्तां रामस्य यो भार्यां हर्तुम् इच्छसि ॥

3.45.39

अयोमुखानां शूलानाम् अग्रे चरितुम् इच्छसि
रामस्य सदृशीं भार्यां यो ऽधिगन्तुं त्वम् इच्छसि ॥

3.45.40

यद् अन्तरं सिंहशृगालयोर् वने यद् अन्तरं स्यन्दनिकासमुद्रयोः
सुराग्र्यसौवीरकयोर् यद् अन्तरं तद् अन्तरं दाशरथेस् तवैव च ॥

3.45.41

यद् अन्तरं काञ्चनसीसलोहयोर् यद् अन्तरं चन्दनवारिपङ्कयोः
यद् अन्तरं हस्तिबिडालयोर् वने तद् अन्तरं दाशरथेस् तवैव च ॥

3.45.42

यद् अन्तरं वायसवैनतेययोर् यद् अन्तरं मद्गुमयूरयोर् अपि
यद् अन्तरं सारसगृध्रयोर् वने तद् अन्तरं दाशरथेस् तवैव च ॥

3.45.43

तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ
हृतापि ते ऽहं न जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम् ॥

3.45.44

इतीव तद् वाक्यम् अदुष्टभावा सुदृष्टम् उक्त्वा रजनीचरं तम्
गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥

3.45.45

तां वेपमानाम् उपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः
कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥

मूल पाठ: Rāmāyaṇa-rev-2-3 · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc